76b यथासंख्यमिति यथासंख्यं प्रोक्तम् । यथासंख्यमित्यपेक्ष्य नपुंस[क]त्वम् तस्य विधेयत्वात् । अनुदेशस्यानूद्यतया अप्रधानत्वान्न तल्लिङ्गपरिग्रहः । प्रोक्तम् इति संख्यातमित्यपि प्रोक्तम् । क्रम इत्यपि प्रोक्त इति लिङ्गपरिणामेन योज्यम् । क्रम इत्यपि उपदिश्यत इति वा अध्याहार्यम् इति ॥

तदुदाहरन्नाह—

ध्रुवं ते चोरिता तन्वि स्मितेक्षणमुखद्युतिः ।
स्नातुमम्भःप्रविष्टायाः कुमुदोत्पलपङ्कजैः ॥ २७२ ॥

तन्वि ! ते स्नातुमम्भ [प्रविष्टायाः] सरःप्रविष्टायाः स्मितं चेक्षणं च मुखं च तेषां द्युतिरित्युद्देशः कुमुदान्युत्पलानि पङ्कजानि च तैश्चोरिता मुषिता कुमुदैः स्मितद्युति-