तद् व्याचष्टे—

इत्याह युक्तं विदुरो नान्यतस्तादृशी धृतिः ।
भक्तिमात्रसमाराध्यः सुप्रीतश्च ततो हरिः ॥ २७५ ॥

इत्येतदनन्तरोक्तं युक्तं प्राप्तकालमाह ब्रवीति विदुरो नरोत्तमः कश्चिदेवमभिधानः । यतो नैव गोविन्दागमनादृतेऽन्यतः कुतश्चिदपि तादृशी गोविन्दागमनभाविनी धृतिः प्रीतिर्जायते । यतो युक्तमाहेत्यपीक्षणीयं ततः ईदृशात् प्राप्तकालात् । सुप्रीतोः अत्यन्तप्रसन्नो हरिर्विष्णुरभूत् । किमेतावता सुप्रीतः स्यात् ? नकिञ्चिद् गृहागताय तस्मै तथाविधायातिथये तादृशं वस्तूपहृतं यतः सुप्रीतः स्यादित्याह- भक्तिरीदृशी वचनादिरूपा यथाभाविनी सेवा सैव तन्मात्रम् बहिर्वस्तूपहाराद्यनपेक्षणात् । तेन समाराध्यः प्रतिपूजनीयो यतस्तस्मात् तत एव भक्तेः सुप्रीत इति निगमनीयम् ॥