163

रसवदुदाहरन्नाह—

मृतेति प्रेत्य संगन्तुं यया मे मरणं मतम् ।
सैवावन्ती मया लब्धा कथमत्रैव जन्मनि ॥ २७८ ॥

इयं किल प्रेयसी मृता स्वर्गमगमदिति हेतोः प्रेतलोकान्तरे क्वचित् ययानया संगन्तुं योगार्थं मरणं देहविसर्जनं मतमिष्टं मम । मृत्वाप्यवश्यं तया संगंस्ये इति । सैव या परासुः किलासीत् नान्या अवन्ती अवन्तिराजतनया मया [अयातजीवि]तेन तथाव्यवसितेनात्रैव जन्मनि न प्रेत्य कथं लब्धा, किमिद