202

Third Pariccheda (Duṣkara)

दुष्करो नाम तृतीयः परिच्छेद ।

92b तदेवमर्थालङ्कारं परिच्छिद्यानुप्रास[प्रस]ङ्गोक्तलक्षणानुवादेन यमकप्रपञ्चपुरःसरं दुष्करपरिच्छेदमारिप्सुराह—

अव्यपेतव्यपेतात्मा व्यावृत्तिर्वर्णसंहतेः ।
यमकं तच्च पादानामादिमध्यान्तगोचरम् ॥ १ ॥

वर्णानां स्वरव्यञ्जनानां संहतेः समुदायस्य व्यावृत्तिरावृत्तिः पुनरुच्चारणम् । नैकस्य वर्णस्य, तस्या अनुप्रासत्वात् । यथोक्तम्— वर्णावृत्तिरनुप्रासः १. ५५ इति । तत्प्रसङ्गेन आवृत्तिमेव सङ्घातगोचरां यमकं विदुः १. ६१ इति कृतलक्षणं यमकम् । तदेवमनूद्य यमकं विधीयते । सा च व्यावृत्तिः [कीदृशी ?] वर्णान्तरेणाव्यपेतोऽव्यवहितः व्यपेतो व्यवहितश्चात्मा स्वरूपं यस्या इत्यव्यपेतव्यपेतात्मा । तथा वर्णान्तराव्यवहिता वर्णसंहतेरावृत्तिरव्यपेतयमकम् । या तु व्यवहिता तद् व्यपेतयमकमिति द्विधा यमकं तावद् विकल्प्यते । तच्चैतद् द्विविधं यमकं विषयनिरूपणायामादिश्च मध्यश्चान्तश्च गोचरो विषयोऽस्येत्यादिमध्यान्तगोचरं विज्ञेयम् । कस्य ? पादानां प्रत्येकं चतुर्णां श्लोकावयवानाम् । सापेक्षार्थे गमकत्वात् समासः ॥

पादचतुष्टयस्यादिमध्यान्तभाविनो यावन्तः प्रकाराः सम्भवन्ति तान् दर्शयति—

एकद्वित्रिचतुष्पादयमकानां विकल्पनाः ।
आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः ॥ २ ॥

एकपादयमकस्य द्विपादयमकस्य त्रिपादयमकस्य चतुष्पादयमकस्य [च] विकल्पना विकल्पाः प्रभेदाः कथ्यन्ते भवन्तीति वा शेषः । पादस्यैकस्य पादद्वयस्य पादत्रयस्य पादचतुष्टयस्य वा आदितो वा मध्यतो वान्ततो वा । आदौ मध्येऽन्ते वेति त्रयो विकल्पास्तावत् । मध्यतोऽन्ततश्चादिमं वर्जयित्वेति चतुर्थो विकल्पः । मध्यत आदितश्चान्त्यं विहायेति पञ्चमः । आदितोऽन्ततश्च मध्यं त्यक्त्वेति षष्ठः ।203 सर्वत आदौ मध्येऽन्ते चेति सप्तमो विकल्पः । सर्वत इत्यस्यान्ते श्रुतस्य तसः प्रत्येकं सम्बन्धात् । सप्तम्यर्थश्चायम् । तथा च प्रथमं विवृतमादौ मध्येऽन्ते वेति । अन्यत्राप्येवं योज्यम् । यदा च सर्वतो यमकं तदा पादाभ्यासादयो विकल्पा जायन्ते ॥

एते सप्त विकल्पा मौलाः परस्परसङ्करभाजोऽनेकधा प्रसरन्तीति दर्शयन्नाह—

अत्यन्तबहवस्तेषां भेदाः सम्भेदयोनयः ।
सुकरा दुष्कराश्चैव दृश्यन्ते तत्र केचन ॥ ३ ॥

तेषां सप्तानां 93a विकल्पानां सम्भेदः सङ्करो मिश्रत्वमुच्चावचप्रकारः योनिः प्रभवो येषां ते सम्भेदयोनयः । भेदाः प्रकाराः अत्यन्तबहवो भूयांसो भवन्ति । एकत्र श्लोके क्वचिदादियमकं क्वचिन्मध्ययमकं क्वचिदन्तयमकं क्वचिन्मध्यान्तयमकं क्वचिन्मध्यादियमकं क्वचिदाद्यन्तयमकं क्वचित् सर्वत्र इत्येवमेतेऽनेकधा प्रसरन्ति । ते चैते सुखेन क्रियन्ते प्रयुज्यन्त इति सुकराः, तद्विपरीताश्च दुष्करा इति द्विधा पुनः संगृह्यन्ते । तत्र ते सुकरेषु दुष्करेषु च केचन केचिद् भेदा न सर्वेऽतिप्रसङ्गाद् दृश्यन्ते उदाह्रियन्ते ॥

मानेन मानेन सखि प्रणयोऽभूत् प्रिये जने ।
खण्डिता कण्ठमाश्लिष्य तमेव कुरु सत्रपम् ॥ ४ ॥

सखि ! प्रिये जने विषयेऽनेन सङ्गमसुखविरोधिना मानेन प्रातिकूल्येन सह प्रणयपरिचयो मा भूत् । तव मानो न कार्य इति यावत् । यदि न मानः कर्तव्यः किमिदानीं क्रियताम् ? येन खण्डिता वञ्चितासि तस्य कण्ठमाश्लिष्य तमेव प्रियं कृतव्यलीकं सत्रपं सलज्जं कुरु विनयवर्त्मना तमेव विलक्षं विधेहि । किं मानेनेति ? शब्दार्थप्रधानमेतद् यमकव्याख्यानं क्रियते, भावार्थचर्चायामतिविस्तरप्रसङ्गात् । इदं प्रथमपादादियमकम् ॥

मेघनादेन हंसानां मदनो मदनोदिना ।
नुन्नमानं मनः स्त्रीणां सह रत्या विगाहते ॥ ५ ॥

मदनः कामः रत्या कलत्रेण सह स्त्रीणां मनो विगाहते प्रविशति । किविशिष्टम् ? हंसानां मदं नुदतां मेघानां नादेन नुन्नो निरस्तो मानोऽस्येति नुन्नमानं मानसं वा अवेहि । तस्मिन्नवकाशमसौ लभते । इदं द्वितीयपादादियमकम् ॥

204
राजन्वत्यः प्रजा जाता भवन्तं प्राप्य साम्प्रतम् ।
चतुरं चतुरम्भोधिरसनोर्वीकरग्रहे ॥ ६ ॥

चत्वारः पूर्वादयोऽम्भोधयः परिखे[वोप]योगादिसाधर्म्येण रसना मेखला यस्याः तस्या उर्व्या भुवः करो हस्तो बलिश्चेति श्लिष्टम् । तस्य ग्रहे उपादाने चतुरं भ[वन्तं] प्राप्य प्रजा जना राजन्वत्यः सौराज्ययोगात् जाता अभूवन् साम्प्रतमद्येति तृतीयपादादियमकम् ॥

अरण्यं कैश्चिदाक्रान्तमन्यैः सद्म दिवौकसाम् ।
पदातिरथनागाश्वरहितैरहितैस्तव ॥ ७ ॥

तवाहितैः शत्रभिः कैश्चित्पलायमानैररण्यमाक्रान्तम् । उत्सृष्टगृहै[र्वनं] प्रविष्ट[मित्यर्थः] । 93b अन्यैस्त्वत्कृपाणभ्रमोज्भ्कतप्राणैदिवौकसां सद्म स्वर्गमाक्रान्तमारूढम् । किंभूतैः ? पदातिभिः रथैर्नागैरश्वैश्च रहितैस्त्यक्तैः । [अत्रारण्यगमनं स्वर्गगमनं वा भुवि निःस]हायत्वात् । तेन वा [भवत्त]स्तेषामाच्छादनात् । इदं चतुर्थपादादियमकम् ॥

मधुरं मधुरम्भोजवदने वद नेत्रयोः ।
विभ्रमं भ्रमरभ्रान्त्या विडम्बयति किं न्विदम् ॥ ८ ॥

अम्भोजमिव वदनमस्या इत्यम्भोजवदना [तस्याः सम्बुद्धिः] । तव नेत्रयोर्विभ्रमं चञ्चलत्वं मधुरं रम्यं भ्रमरा[णां भ्रान्त्या चा]पलेन विडम्बयति अनुकरोति मधुर्वसन्तः किं न्विदं वद ब्रूहि इति कश्चिच्चाटुकारः प्रियामुपलालयति । प्रथमद्वितीयपादादियमकम् ॥

वारणो वा रणोद्दामो हसो वा स्मर ! दुर्धरः ।
न यतो नयतोऽन्तं नस्तदहो विक्रमस्तव ॥ ९ ॥

[हे स्मर !] यतो यस्मा[त् नः अस्मान्] अन्तं नाशं नयतः प्रापयतस्तव रणे उद्दामः क्षमो वारणो वा हस्ती वा, हयोऽश्वो वा दुर्धरः सांग्रामिको नास्ति ।205 तत्तस्मादहो विचित्रीयते विक्रमस्तव यद् विना रणोपकरणे[नास्मद्विधाः] आसादिताः त्वयेति प्रथमतृतीयपादादियमकम् ॥

राजितैराजितैक्ष्ण्येन जीयते त्वादृशैर्नृपैः ।
नीयते च पुनस्तृप्तिं वसुधा वसुधारया ॥ १० ॥

त्वादृशैः शक्तिसम्पन्नैर्नृपैराजौ रणे तैक्ष्ण्येन शौर्येण राजितैर्दीप्तैर्वसुधा पृथिवी जीयते । पुनस्तदनु वसुनो धनस्य धारया सन्तानेन दीयमानया करणेन हेतुना वा तृप्तिमभिलाषपर्यन्तं नीयते च । न केवलं जीयत एव वसुधेत्यत्राप्युक्तम् । प्रथमचतुर्थपादादियमकमिदम् ॥

करोति सहकारस्य कलिकोत्कलिकोत्तरम् ।
मन्मनो मन्मनोऽप्येष मत्तकोकिलनिस्वनः ॥ ११ ॥

सहकारस्य कलिका मञ्जरी उत्कलिका उत्कण्ठा उत्तरा प्रबला यस्य [तथा उत्कलि]कोत्तरं [तद्]बहुलं मम मन करोति । पर्युत्सुकयतीति यावत् । मत्तस्य कोकिलस्य निस्वनः शब्दोऽप्येषो[ऽत्यन्त]मधुरः मन्मनः उत्कलिकोत्तरं करोतीति प्रकृतम् । अत्र द्वितीयतृतीयपादादियमकम् ॥

कथं त्वदुपलम्भाशाविहताविह तादृशी ।
अवस्था नालमारोढुमङ्गनामङ्गनाशिनी ॥ १२ ॥

तवोपलम्भे समागमे आशा मनोरथः तस्य विहतौ विघाते इह अस्यां सत्यां तादृशी अभिलाषचिन्तनानुस्मृतिगुणकीर्तनोद्वेगविलापोन्माद[मूर्च्छा]व्याधिजडताक्रमेण प्रवृद्धावस्था अङ्गं नाशयतीत्यङ्गनाशिनी दशमी । तादृशीमित्यपि पठ्यते । तत्राङ्गनां तादृशीं त्व[द]नुरागपरवशामिति व्याख्येयम् । [अङ्गनाम्] आरोढुमासादयितुं कथं नालं न समर्था ? आरोहत्येव । नात्र सन्देहः । तदनुकम्प्यतामङ्ग ! वराकी । किं स्त्रीवधपातकदोहदेनेति 94a द्वतीयचतुर्थपादादियमकम् ॥

निगृह्य नेत्रे कर्षन्ति बालपल्लवशोभिना ।
तरुणा तरुणान् कृष्टानलिनो नलिनोन्मुखाः ॥ १३ ॥

206 तरुणा वृक्षेण बालैः पल्लवैः शोभमानेन नेत्रे निगृह्य कृष्टान् विक्षिप्तमनसः तरुणान् यूनः अलिनो भ्रमरा नलिनेषून्मुखाः प्रवृत्ताः । नेत्रे चक्षुषी निगृह्य दर्शनसुभगतया गृहीत्वा कर्षयन्ति अभिमुखीकुर्वन्ति । उभयदर्शनवशव्याकुलास्तरुणा इति यावत् । अत्र तृतीयचतुर्थपादादियमकम् ॥

विशदा विशदामत्तसारसे सारसे जले ।
कुरुते कुरुतेनेयं हंसी मामन्तकामिषम् ॥ १४ ॥

सरस इदं [सारसं तत्र] सारसे जले, किंभूते ? विशतो विगाहमाना आमत्ताः सारसाः पक्षिणो यस्मिन् [तत्र] विशदामत्तसारसे व्यवस्थिता विशदा शुक्ला हंसीयं विरहिजनोद्वेजनीयत्वात् मधुरेणापि कुत्सितेनाविषह्येन रुतेन शब्देन हेतुना करणेन [वा] अन्तकस्य मृत्योरामिषं ग्रासं मां कुरुते, मां हन्तीति यावत् । प्रथमद्वितीयतृतीयपादादियमकं विकल्पितमिदम् ॥

विषमं विषमन्वेति मदनं मदनन्दनः ।
सहेन्दुकलयापोढमलया मलयानिलः ॥ १५ ॥

मलयानिलो ममानन्दन पीडाहेतुः अपोढम् अपगतं मलम् अत इति अपोढमलया विशदया इन्दोः कलया सह मदनं कामं नाम विषमं विषम् आशुनाशकत्वात् । अन्वेति अनुसरति उपनयती[?]त्यर्थः । अन्वेत्यनुकरोतीति वा व्याख्येयम्, मलयानिलश्चन्द्रकला च तादृगत्यन्ततापकरत्वात् मदनायत्तौ इत्यर्थः । प्रथमद्वितीयचतुर्थपादादियमकमिदम् ॥

मानिनी मा निनीषुस्ते निषङ्गत्वमनङ्ग मे ।
हारिणी हारिणी शर्म तनुतां तनुतां वतः ॥ १६ ॥

अनङ्ग ! तव निषङ्गत्वं तूणीरत्वं शरनिकरपूरयोगेन मा मां निनीषुर्नेतुम् इच्छन्ती मानिनी काचिद् विवक्षितास्त्री हारिणी मुक्तालतालंकृता, अनेना[हा]र्यं रूपमुक्तम् । स्वभावरूपगुणयोगाच्च मनोहरा मे मम तनुतां कृशत्वं प्राणसन्देहं यतः गच्छतः शर्म समागमसुखं जीवितं तनुतां करोतु । प्रसीद, आज्ञापयैनाम् । देव ! त्वमेवास्याः प्रभवसीति प्रथमतृतीय वतुर्थपादादियमकं विकल्पितम् ॥

207
जयता त्वन्मुखेनास्मानकथं न कथं जितम् ।
कमलं कमलङ्कुर्वदलिमद्दलि मत्प्रिये ॥ १७ ॥

मम प्रिये मत्प्रिये ! तव मुखेनास्मानेवं मुखरान् जयता वशीकुर्वता अकथं न विद्यते कथास्येत्यवचनम्, विकासयोगेन दलानि प्रशस्तानि पत्राण्यस्मिंन् इति दलि । प्रबुद्धमिति यावत्, अतश्च मकरन्दलोलुपमधुप94b योगात्, अलयोऽस्मिन् विद्यन्ते इति अलिमत् । एवं च गुणयोगात् कमुदकमाश्रयमलङ्कुर्वत् भूषयत् कमलं पद्मपर्यायमपि कथमवचनं [सत्] न जितं जितमेवेति कमलेन मुखमुपमितम् । अत्र द्वितीयतृतीयचतुर्थपादादियमकमाविष्कृतम् ॥

रमणी रमणीया मे पाटला पाटलांशुका ।
वारुणीवारुणीभूतसौरभा सौरभास्पदम् ॥ १८ ॥

रमणी स्त्री काचित् अभिमता रमणीया मनोज्ञा मे मम । किंभूता ? पाटलपुष्पवदापाटलमरुणमंशुकं यस्याः सा । तथा सौरभस्य सुगन्धितायाः कृत्रिमस्य सहजस्य चास्पदं भूमिः । कथमिव तादृशी दृश्यते ? अरुणीभूता सौरी सूर्यसम्बन्धिनी भा दीप्तिर्यस्याः सा तथाभूता वारुणी पश्चिमा दिगिव रमणीयेति प्रकृतम् । पादचतुष्टयादियमकमुक्तम् ॥

इति पादादियमकमव्यपेतं विकल्पितम् ।
व्यपेतस्यापि वर्ण्यन्ते विकल्पास्तस्य केचन ॥ १९ ॥

आदियमकमव्यपेतं विकल्प्योपसंहरति- इत्युक्तेन प्रकारेण पादानामेकशः द्विशः त्रिशः चतुर्णां च, आदौ आदिर्वा यमकमव्यपेतमव्यवहितं विकल्पितमनेकधा विभक्तम् । तस्य यमकस्य व्यपेतस्य व्यवहितस्यापि, न केवलमव्यपेतस्य विकल्पाः प्रभेदाः केचित् कतिपये, न सर्वे, वर्ण्यन्त उदाह्रियन्त इति ॥

मधुरेणदृशां मानमधुरेण सुगन्धिना ।
सहकारोद्गमेनैव शब्दशेषं करिष्यति ॥ २० ॥

एणदृशां स्त्रीणां नानाप्रियजनवैमुख्यं शब्द उपमानेत्यादिवाचकः शेषोऽवशिष्टः, अर्थस्य विगमात् यस्य तं शेषमसन्तं करिष्यति मधुर्वसन्तः । केन ? मधुरेण208 मनोज्ञेन सुगन्धिना सुरभिणा सहकारस्योद्गमेनाङ्कुरेणैव । कुं बहुना ? स हि तादृशो मानविरुद्धरागमुपनयन् मानस्य शेषीकरणे करणत्वं प्रतिपद्यते । प्रथमद्वितीयपादादिवर्तिव्यपेतयमकम् ॥

करोऽतिताम्रो रामाणां तन्त्रीताडनविभ्रमम् ।
करोति सेर्ष्यं कान्ते वा श्रवणोत्पलताडनम् ॥ २१ ॥

रामाणामतिताम्रः करः पाणिः तन्त्रीणां वीणागुणानां ताडनं वादनमेव विभ्रमं लीलां करोति विधत्ते, कान्ते पत्यौ विषये श्रवणोत्पलेनावतंसकुवलयेन ताडनं प्रहारं वा सेर्ष्यमीर्ष्यया सह वर्तमानं सासूयं करोति इति प्रकृतम्, तादृशमेव हि कर्म तस्य योग्यम् । प्रथमतृतीयपादादिविषयं यमकमिदम् ॥

सकलापोल्लसनया कलापिन्यानुनृत्यते ।
मेघाली नर्तिता वातैः सकलापो विमुञ्चति ॥ २२ ॥

वातैर्नर्तिता मन्दमन्दमान्दोलिता 95a मेघानामाली माला सकलाः सर्वाः न काश्चिदेव । अपो जलानि विमुञ्चति वर्षति, कलापस्य बर्हभारस्योल्लसनं विस्तारः । तेन सह वर्तते सकलापोल्लसनया कलापिन्या मयूराङ्गनया प्रमुदितया अनुनृत्यते वृष्ट्यनन्तरं नट्यते । प्रथमचतुर्थपादादिगोचरं व्यपेतयमकमेतत् ॥

स्वयमेव गलन्मानकलि कामिनि ते मनः ।
कलिकामद्य नीपस्य दृष्ट्वा कां नु स्पृशेद् दशाम् ॥ २३ ॥

हे कामिनि ! ते तव मनश्चित्तं स्वयमात्मनैव तादृश[द्रावक]वस्तुनो दर्शनम् अन्तरेण गलति वर्तमानो मान एव कलिर्वर्तते अर्थान्तरम् । अद्य प्रावृषि नीपस्य तरोः कलिकां साक्षादिवोत्कलिकां दृष्ट्वा कां कीदृशीं दशामवस्थां स्पृशेद् गच्छेद् इति न विद्मः । सुतरां रागवक्तव्यतां यास्यतीति भावः । नु वितर्के । द्वितीयतृतीयपादादिव्यपेतयमकम् ॥

आरुह्याक्रीडशैलस्य चन्द्रकान्तस्थलीमिमाम् ।
नृत्यत्येष चलच्चारुचन्द्रकान्तः शिखावलः ॥ २४ ॥

209 एष शिखावलो मयूरः चन्द्रकस्य बर्हस्यान्तोऽग्रभागः लसन्नाकम्पमानश्चारु शोभनः चन्द्रकान्तोऽस्येति लसच्चारुचन्द्रकान्तः आक्रीडशैलस्य क्रीडापर्वतस्य सम्बन्धिनीमिमां सन्निहितचन्द्रकान्तस्य मणेस्तद्रूपां वा स्थलीं भूमिमारुह्य नृत्यति । द्वितीयचतुर्थपादादिव्यपेतयमकम् ॥

उद्धृता राजकादूर्वी ध्रियतेऽद्य भुजेन ते ।
वराहेणोद्धृता यासौ वराहेरुपरिस्थिता ॥ २५ ॥

वराहेण क्रोडवपुषा विष्णुना उद्धृता जलधेर्वरस्योत्तमस्याहेः शेषस्योपरिस्थिता च या असौ सर्वा उर्वी पृथिवी राजकाद् राजसमूहाद् उद्धृता विजित्य गृहीता, अद्य सम्प्रति ते भुजेन बाहुना सर्वाभिसारिणा ध्रियते यथान्यायं परिपाल्यते । तृतीयचतुर्थपादादिव्यपेतयमकम् ॥

करेण ते रणेष्वन्तकरेण द्विषतां हताः ।
करेणवः क्षरद्रक्ता भान्ति सान्ध्यघना इव ॥ २६ ॥

ते तव करेण भुजेन [रणेषु] द्विषतां शत्रूणामन्तं नाशं करोत्यन्तकरेण हता [जनित]क्षताः करेणवो द्विषतां हस्तिनः क्षरद्रक्तं रुधिरमेषामिति क्षरद्रक्ताः तथा सन्तः सन्ध्यानुरक्ता घनाः सान्ध्यघना इव सरागधरापयोधरा इव भान्ति । प्रथमद्वितीयतृतीयपादादिव्यपेतयमकम् ॥

परागतरुराजीव वातैर्ध्वस्ता भटैश्चमूः ।
परागतमिव क्वापि परागततमम्बरम् ॥ २७ ॥

परा शत्रुभूता चमूः सेना भटैः शूरैर्ध्वस्ता भग्ना । कथमिव ? अगे पर्वते [स्थितानां] तरूणां राजिः संघातो वातैरिव । अत्र च व्य[ति]करे [क्वापि] क्वचित् स्थानेऽनिर्दिष्टे परागैः पांशुभिः समरसंक्षोभप्रभवैस्ततं व्याप्तमम्बरमाकाशमिदं परागतं विद्रुतं लीनमिवाभूत् । एवमतितुमुलं 95b रणमभवत् । प्रथमतृतीयचतुर्थपादादिव्यपेतयमकम् ॥

पातु वो भगवान् विष्णुः सदानवघनद्युतिः ।
स दानवकुलध्वंसी सदानवरदन्तिहा ॥ २८ ॥

210 स त्रैलोक्यविख्यातः विष्णुर्भगवानिति पूजावचनम् । वो युष्मान् पातु अपायाद् रक्षतु सदा नित्यम् । नवस्य नूतनस्य जलगर्भस्य घनस्य मेघस्येव द्युतिर्दीप्तिः अस्येति नवघनद्युतिः । श्याम इति यावत् । दानवानामसुराणां कुलं ध्वंसयति इति दानवकुलध्वंसी । सह दानेन मदेन वर्तते सदानो मत्तः । वरश्चासौ दन्ती च सदानश्चासौ वरदन्ती च कुवलयापीडादिः तं हतवान् सदानवरदन्तिहा । द्वितीयतृतीयचतुर्थपादादिव्यपेतयमकम् ॥

कमलेः समकेशान्ते कमलेर्ष्याकरं मुखम् ।
कमलेख्यं करोषि त्वं कमलेवोन्मदिष्णुषु ॥ २९ ॥

ते तव कं शिरः । समाः केशा अस्येति समकेशम् । कस्य ? अलेर्भ्रमरस्य अलिन इत्यर्थः । भृङ्गस्येव श्यामशिरोरुहं तव शोभतेतराम् । मुखं च ते कमलेन पद्मेन सहेर्ष्याकरम् । तत्साम्यात् कमलमिव मुखं विराजत इत्यर्थः । एवं वराङ्गी त्वं कमला लक्ष्मीरिवोन्मदिष्णुषु ये केचित् कामोन्मादशीलास्तेषु मध्ये कं नाम पुरुषम् अलेख्यमगणनीयमुन्मदिष्णुतया करोषि ? यस्तज्जां शोभामीदृशीं पश्यति तं सर्वमेवोन्मादयसि न किञ्चिन्मुञ्चसीत्यर्थः । पादचतुष्ट्यादिव्यपेतयमकमेकजातीयम् ॥

मुदा रमणमन्वीतमुदारमणिभृषणाः ।
मदभ्रमदृशः कर्तुमदभ्रजघनाः क्षमाः ॥ ३० ॥

अदभ्रजघनाः स्त्रियो मदेन यौवनमधुपानादिसम्भूतेन । भ्रमन्त्यो दृशो नेत्राण्यासामिति मदभ्रमदृशः । उदारा महार्हा मणयः पद्मरागेन्द्रनीलादयः रत्नमेखलादिस्वभावा भूषणमलङ्कारो यासामिति उदारमणिभूषणाः सत्यः । मुदा प्रीत्या अन्वितं युक्तं रमणं वल्लभं कर्तृं क्षमाः शक्नुवन्ति । रमणमतितरां मोदयन्तीति यावत् । पादचतुष्टये पादादिव्यपेतयमकमेकजातीयम् ॥

उदितैरन्यपुष्टानामारुतैर्मे हृतं मनः ।
उदितैरपि ते दूति ! मारुतैरपि दक्षिणैः ॥ ३१ ॥

हे दूति ! अन्यपुष्टानां कोकिलानां सम्बन्धिभिरारुतैः शब्दैरुदितैः सम्पन्नैः मे मम मनो हृतं गृहीतम् । न केवलमेभिः । ते तवोदितैरालापैः पेशलैदक्षिणैर्मारुतैरपि211 पवनैश्च हृतमिति प्रकृतम् । प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च पादयोरादितो व्यपेतयमकम ॥

सुराजितह्रियो यूनां तनुमध्यासते स्त्रियः ।
तनुमध्या क्षरत्स्वेदसुराजितमुखेन्दवः ॥ ३२ ॥

स्त्रियो यूनां तनुमङ्गमध्यासते अधिशेरते पुरुषायितयोगेन । किंभूताः ? सुरया मदिरया जिता उत्सा96a रिता ह्रीस्त्रषा अस्यामिति सुराजितह्रियोऽत्यन्तमत्ताः । तनु क्षामं मध्यमुदरमासामिति तनुमध्याः, क्षरता स्वेदेन श्रमजलेन मुक्ताजालकेनैव सुष्ठु राजितमलंकृतं मुखमिन्दुकान्त्यादिना आसामिति क्षरत्स्वेदसुराजितमुखेन्दवः । द्वितीयतृतीययोः प्रथमचतुर्थयोश्च पादयोरादितो व्यतेतयमकम् ॥

इति व्यपेतयमकप्रभेदोऽप्येष दर्शितः ।
अव्यपेतव्यपेतात्मा बिकल्पोऽप्यस्ति तद्यथा ॥ ३३ ॥

एवं विकल्प्य निगमयति—इत्युक्तेन विधिना व्यपेतस्य यमकस्य प्रभेदोऽपि विकल्पश्चैव प्रकृतो दर्शित उदाह्रितः । न केवलमव्यपेतमयमकविकल्प इति अपिशब्देनाचष्टे । अव्यपेतव्यपेतश्चात्मा स्वभावो व्यामिश्रो यस्य विकल्पस्य, प्रकरणाद् यमकसम्बन्धिनः, सोऽप्यस्ति, न केवलमुक्तः शुद्धः । अस्येति पाठे अस्य यमकस्य सम्बन्धी विद्यत इति गम्यते । कीदृशोऽसौ ? तद्यथेत्युदाहरति ॥

सालं सालम्बकलिकासालं सालं न वीक्षितुम् ।
नालीनालीनवकुलानाली नालीकिनीरपि ॥ ३४ ॥

सा आली सखी काचिद् विवक्षिता विरहातुरा वीक्षितुं न अलं [न] शक्नोति, किम् ? आलम्बनमालम्बः सह तेन वर्तते सालम्बा आलम्बमानाः समन्ततोऽवरूढा इत्यर्थः । सालम्बाः कलिका यासां सालानां शाखानां ताः सालम्बकलिकासाला यस्य सालस्य तरुविशेषस्य सर्जस्य तमीक्षितुं विरहज्वरसम्भूतामनोरोचकत्वा[न्ना]लम् । सालम्बाः कलिका एव परिक्षेपसाधर्म्येण सालः प्राकारो यम्येत्यपि व्याख्यायते । न केवलमेवम् । आलीनाः श्लिष्टा वकुलाः केसरतरवः पुष्पसमृद्धियोगाद् यैरित्यालीनवकुलान् अलीन् भ्रमरानपि पूर्ववद्वीक्षितुं नालमिति प्रकृतम् । नालमस्यास्तीति212 नालीकं पद्मम् । अन्येषां दृश्यत इति दीर्घत्वम् । तद्विद्यते आसामिति नालीकिनीः पद्मिनीरपि वीक्षितुं नालमिति प्रकृतम् । दुष्करं वराकी जीविष्यतीति काचिद् विरहिणीं सखीमुद्दिश्य कञ्चिदेवं वक्तीति प्रथमद्वितीययोस्तृतीयचतुर्थयोश्च पादयोरादितोऽव्यपेतव्यपेतं यमकम् ॥

कालं कालमनालक्ष्यतारतारकमीक्षितुम् ।
तारतारम्यरसितं कालं कालमहाघनम् ॥ ३५ ॥

कालं समयं काला महान्तो घना अस्मिन्निति कालमहाघनम् । विपुलनीलजलदम् । तारस्य भावस्तारता उच्चैस्तरत्वम् । तया गाम्भीर्ययोगेन रम्यं कान्तं रसितं गर्हितं मेघसम्बन्धि यस्मिन्निति 96b तारतारम्यरसितं गम्भीरघनगर्जितगर्भम् । अनालक्ष्यास्तिरोहिताः, मेघपिहितत्वात् । तारा उज्ज्वलास्तारका नक्षत्राणि अस्मिन्निति अनालक्ष्यतारतारकं कालं विरहिणि जने कृतान्त[सदृश]मतिदुःसहत्वाद् वीक्षितुं का नाम स्त्री संयुक्ताऽपि प्रागेव वियुक्ता । अलं शक्नोति ? नैव काचित् । इति प्रावृष उत्कण्ठाकारित्वमुद्भावितम् । प्रथमचतुर्थयोर्द्वितीयतृतीययोरादितोऽव्यपेतव्यपेतयमकं नैकजातीयम् ॥

याम यामत्रयाधीनायामया मरणं निशा ।
यामयाम धियास्वार्त्याया मया मथितैव सा ॥ ३६ ॥

यामानां त्रयं त्रयोः प्रहराः । तत्राधीन आयत्त आयामो दैर्घ्यं यस्यास्तया निशा रात्र्या वर्षायमाणया हेतुभूतया मरणमनुयामो गच्छामो वयं भवदर्थे । तन्नेदमस्मान् दुनोति । किं त्विदमतिकष्टम्- यामङ्गनामहं गतवानस्मि सेदानीमसूनामार्तिं पीडामायातीत्यस्वार्त्याया प्राणार्तिदुःखनिर्वेशा118 । मया अधिया तत्परित्यागात् दुर्बुद्धिनेदृशेन मया सा मथितैव हतैव । नात्र सन्देहः । न हि सा मद्विरहिता जीवति वराकी । स्वविरहदुःखनिमित्तत्वात् तन्मरणस्य मया मथितैवत्युक्तम् । एवं विपद्यमानेन मया सह सापि वराकी मथिताऽनया निशेति वा योज्यम् । एवं वियुक्तः कश्चित् कामी प्रियामनुशोचति । पादचतुष्टयादियमकं व्यपेतमव्यपेत[मेक]रूपम् ॥

213

पादादियमकविकल्पमुपसंहरति—

इत्यादिपादयमकविकल्पस्येदृशी गतिः ।
एवमेव विकल्प्यानि यमकानीतराण्यपि ॥ ३७ ॥

इत्युक्तेन प्रकारेण आदिश्चासौ पादश्च, अवयवे समुदायोपचारात् । तत्र यमकं पादादियमकमित्यर्थः । तस्य विकल्पः प्रभेदः । तस्याव्यपेतस्य व्यपेतस्य च गतिः स्वरूपमीदृश्येवंविधा दर्शितेति शेषः । आदिपादयमकवत् मध्यान्तपादयमकमनुगन्तव्यमित्यतिदिशति- एवमादिपादयमकविकल्पन्यायेनैव इतराणि मध्यान्तवर्तीन्यपि, न केवलं पूर्वाणि । यमकानि सुकराणि प्रभेद्यानि, स्वयमनुगन्तव्यानि, दिशस्तादृशो दर्शितत्वात् ।

तानि चैवं विकल्पनीयानीति—

प्रियां सखे ! सग्वेदां तामनुनीय कथञ्चन ।
आनय त्वरितं कुर्मः कर्म भूयो न तादृशाम् ॥
जितेन्द्रियतयासाद्य 97a सदायति यतिश्रियम् ।
लोकद्वयेऽपि लोकोऽयं त्वयि शासति नन्दति ॥
गत्वा देशान्तरं वित्तं नाहमर्जितुमीश्वरः ।
प्रिये विना विनाशं त्वामसवो यान्ति मे ध्रुवम् ॥
त्यज मानधने मानं घनगर्जितडम्बरः ।
किं करिष्यति कालोऽयं प्रियावृतिवृतिश्रियः ॥
[वरं तथा तथागतो ददातु] येन दुर्जयाः ।
जीयन्ते विषया एते विविधामयहेतवः ॥
शूरास्ते नयनिष्णाता व्यसनप्रभवं भवम् ।
ये जयन्ति महात्मानः प्रजारक्षणदीक्षिताः ॥
सत्यपावित[राज्य]स्य राजन् सततमित्यसौ ।
द्विषां भयङ्करकरस्तव कल्पद्रुमायते ॥
214
षडभिज्ञस्य वः पातु पादः षड्दोषविद्विषः ।
जगद्विजयविख्यातं बलं येनाजितं जितम् ॥

एवं द्विचतुप्पादमध्यान्तयमकं विकल्पनीयम् ॥

तान्यपि किं न विकल्प्यन्ते इति चेदाह—

न प्रपञ्चभयाद् भेदाः कार्त्स्नेनाख्यातुमीप्सिताः ।
दुष्कराभिमता एव दर्श्यन्ते तत्र केचन ॥ ३८ ॥

भेदा यमकविकल्पाः सुकराः कार्त्स्नेन साकल्येन [न] लक्षिताः [यतः] पादमध्यान्तभाविनोऽपि आख्यातुं दर्शयितुं [न] ईप्सिता नेष्टा अस्माभिः । कुतः ? प्रपञ्चेति ग्रन्थविस्तरभयाद् हेतोः । मा भूदतिविस्तर इति संक्षिप्तकाव्यलक्षणप्रणयनप्रतिज्ञानात् । तस्मात् केचिदेव भेदाः प्रकाराः दर्शिताः । इदानीं तु तत्र यमकेषु दुष्करत्वेन दुष्करा इत्येवाभिमता इष्टा दुष्करा एव न सुकरा अपि भेदा मध्ययमकादिविकल्पाः केचन कियन्तो, न सर्वे प्रपञ्चभयात् निदर्श्यन्ते ॥

स्थिरायते यतेन्द्रियो न हीयते यतेर्भवान् ।
अमायते यतेऽप्यभृत् सुखाय तेऽयते क्षयम् ॥ ३९ ॥

स्थिरा अनपायिन्यः, तत्कारणानुष्ठानाविच्छेदात् । आयतिरुभयलोकाभ्युदयरूपा अस्येति स्थिरायते इत्यामन्त्रणमेतत् कस्यचित् । अन्यकार्यान्निरुद्धानि संवृतानि इद्रियाणि बुद्धीन्द्रियाणि चक्षुरादीनि कर्मेन्द्रियाणि पादादीनि वा येनेति यतेन्द्रियो भवान् यतेर्मुनेर्न हीयते नावकृष्यते यतेन्द्रियत्वादेव । न केवलमेतत् । न विद्यते माया परवञ्चना यस्य अमायस्तस्य भावोऽमायता [निःशाठ्यं] परोपकारिता च, तव इयते एतावते महते क्षयं नाशम् अयते अगच्छते स्थिराय सुखाय कामायेति चित्तानुग्रहाय नित्यसुखार्थमभूत् । सर्वत्र सम्पन्नो भवान् । न क्वचिदपि विपन्न इत्यर्थः । 97b पादचतुष्टयमध्ययमकमेकरूपमव्यपेतात्मकमत एवेदृशं दुष्करम् ।

सभासु राजन्नसुराहतैर्मुखै-महीसुराणां वसुराजितैः स्तुताः ।
न भासुरा यान्ति सुरान्न ते गुणाःप्रजासु रागात्मसु राशितां गताः ॥ ४० ॥

215 हे राजन्, सभासु परिषत्सु महीसुराणां ब्राह्मणानां मुखैः किभूतैः ? सुरया हतेति, न तथा असुराहतास्तेरमद्यदूषितैः पवित्रैः । वसुना धनेन यथाकामं प्रतिपादितेन राजितैः प्रीतियोगात् विकसितैः कर्तृभूतैः स्तुता वर्णितास्ते तव त्यागसत्त्वशौर्यादयो भासुराः, दोपासङ्करादुज्ज्वलाः परिशुद्धाः प्रजासु इह लोकेषु रागोऽनुरक्तिर्नृपविषय आत्मा स्वभावस्तत्प्रधानत्वाद् यासामिति रागात्मसु मन्त्रानुरक्तासु विषये राशितां प्रचयतामभिव्याप्तियोगेन गता मर्त्यलोकं सकल व्याप्य कीर्तिद्वारेण सुरान् देवान् न न यान्ति कि तु यान्तेव । स्वर्गेऽपि प्रसिद्धास्ते इत्यर्थः । चतुष्पादमध्ययमकमेकरूपं व्यपेतमिति ॥

तव प्रिया सच्चरिताप्रमत्त याविभूषणं धार्यमिहांशुमत्तया ।
रतोत्सवामोदविशेषमत्तयान मे फलं किञ्चन कान्तिमत्तया ॥ ४१ ॥

हे सच्चरिताप्रमत्त इति सरोषं विरुद्धलक्षणमामन्त्रणम् । दुर्वृत्तप्रमत्तेति गम्यते । सहस्राक्षोऽन्ध इति यथा । असच्चरिते विप्रिये वा अप्रमत्ता अवहिता असच्चरिताप्रमत्त व्यलीकशील इति संबोध्यते । या तव प्रिया बल्लभा तया रतमेवोत्सवस्तत्र स एव वा आमोदविशेषः प्रीत्यतिशयः तेन मत्तया गर्वितया । अंशवोऽस्मिन् सन्तीत्यंशुमद् भासुरं [वि]भूषणं मेखलादिकं धार्यमङ्गे निवेश्यम् । तस्याः प्रसाधनं सफलं किमस्माकं तेन विफलेन भारमात्रेण ! कान्तिमत्तया विभूष[णोत्थया] मे मम न किञ्चित् फलं प्रयोजनमस्ति । एवमप्यहं तव द्वेष्येव । तव परवशस्य । इहेति वाचोयुक्तौ । इह वा प्रस्तावे, काचिदङ्गना प्रियं प्रस्तावे क्वचित् प्रसाधने नियुञ्जानं एवमीर्ष्यति । पादचतुष्टयान्तयमकमेकरूपव्यपेतमिति ॥

भवादृशा नाथ ! न जानते नतेरसं विरुद्धे खलु सन्नतेनते ।
य एव दीनाः शिरसा नतेन तेचरन्त्यलं दैन्यरसेन तेन ते ॥ ४२ ॥

216 हे नाथ स्वामिन् ! भवादृशास्त्वद्विधा महात्मानः नतेः परप्रणामस्य रसं स्वादं कीदृशोऽसाविति न जानते न विदन्ति । न नमन्तीति यावत् । किं कारणम् ? खलु यस्मात् सन्नोऽवसन्नो दुर्गतस्तस्य भावः सन्नता । इनस्य भाव इनता । सन्ततेनते दौर्गत्यैश्वर्ये नाम विरुद्धे परस्परव्याहते । 98a यदि सन्नः कथमिनः ? अथेनः कथं सन्नः ? तादृशश्चे[नो] नातिरसज्ञः [सन्नतायाः] इति भावः । त्वं चेनः तस्माद् भवादृशा नते रसं न जानत इति निगमनीयम् । के तर्हि नतिरसज्ञा इत्याह—य इत्यादि । य एव केचिद् दीना दुर्गतास्त एव ते तवेनस्य [सविध इति शेषः] नतेन सप्रणिपातेन शिरसा पूर्वोक्तेन दैन्येन कार्पण्येन तद्विधास्वाद्यत्वाद् रसेन लक्षिताः सन्तोऽल म[त्य]र्थं चरन्ति प्रवर्तन्ते । ऐश्वर्यं न क्वचिन्नमति । दारिद्रयमेव सर्वत्र प्रणिपतति इति पिण्डार्थः । चतुष्पादान्तयमकमेकरूपमव्यपेतात्मकमिति ॥

लीलास्मितेन शुचिना मृदुनोदितेनव्यालोकितेन लघुना गुरुणा गतेन ।
व्याजृम्भितेन जघनेन च दर्शितेनसा हन्ति तेन गलितं मम जीवितेन ॥ ४३ ॥

लीलास्मितेन विलासहसितेन शुचिना विशदेन मृदुना कोमलेनोदितेनालापेन लघुना लोलेन च व्यलोकितेन वीक्षितेन गुरुणा मन्थरेण गतेन गमनेन व्याजृम्भितेन विस्तीर्णेन जघनेन नितम्बेन च दर्शितेन सर्वेणैतेन मन्मथशस्त्रप्रकरायमाणेन सा काचिदङ्गना हन्ति । प्रदत्तेन घातेन मर्मावेधहेतुना गलितं विगतं मम जीवितेन । नान्यदिह किञ्चित् कारणमिति कश्चित् कामातुरो विरौति । चतुष्पादमध्यान्तयमकमेकरूपं व्यपेतम् ॥

श्रीमानमानमरवर्त्मसमानमान—मात्मानमानतजगत्प्रथमानमानम् ।
भूमानमानयति यः स्थितिमानमान-नामानमानम तमप्रतिमानमानम् ॥ ४४ ॥

श्रीमान् नित्यं लक्ष्म्या युक्तः । न क्वचिदेकत्र[स्थः] सर्वमयत्वादित्यमान् विभुरिति यावत् । स्थितिमान् सदा स्थित्यनुगतः नित्य [इत्यर्थः] । एवंभूतो य आत्मानं217 स्वभावं भूमानं बहुतां विश्वरूपत्वात् । आनयति प्रापयति । किंभूतम् ? अमरवर्त्मना आकाशेन समानं तुल्यं मानं प्रमाणं यस्येत्यमरवर्त्मसमानमानम् आकाशवदप्रमाणम् । आनते भक्तिमति जगति जनेषु प्र[थ]मानो विजृम्भमाणो मानः पूजा यस्येत्यानतजगत्प्रथमानमानं जगत्पूज्यम् । आनते जगति [प्रथमानः] प्रादुर्भवन् मानोऽनुग्रहो य[स्य] इति [वा] योज्यम् । तमेवंविधं विष्णुमानमत हे जनाः119 [इति शेषः] । पुनः किंविशिष्टम् ? अमानान्यपरिमितानि नामानि यस्ये[त्य]माननामानं सर्वमयत्वादनन्ताभिधानम् । अप्रतिमानोऽनुपमः मानोऽभ्युन्नतिरस्येत्यप्रतिमानमानम् । 98b क्वचिदानमतेति पाठः । तत्र बलिबन्धने भुवं मितवन्तं भूमानंम् आनानां प्राणिनां [मतं] शरणतया इष्टमात्मानं परपुरुषं विष्णुम् । तमित्यर्थाद् य इत्युपात्तत्वात् । आनमत् हे जना इति व्याख्येयम् । शेषं समानम् । चतुष्पादमध्यान्तयमकमेकरूपमव्यपेतव्यपेतात्मकम् ॥

सारयन्तमुरसा रमयन्तीसारभूतमुरुसारधरा तम् ।
सारसानुकृतसारसकाञ्चीसा रसायनमसारमवैति ॥ ४५ ॥

सा काचिदभिमता स्त्री सारभूतमुत्कृष्टमुरुसारं सुवर्णं भूषणीकृतं धारयतीति मुरुसारधरा । उरुसारधरेति पाठे- उरुसारं स्त्रीजनोचितं गुणोत्कर्षं धारयतीति व्याख्येयम् । सहारसेन रणितेन वर्तन्त इति सारसा पक्षिणः120 । सारसै रसद्भिरनुकृता तुल्या तत्समानशब्दत्वात् सारसकाञ्ची मेखला यस्या इति सारसानुकृतसारसकाञ्ची तमिष्टं कञ्चित् । पाठान्तरे- सारभूतं नागरकवृत्तसम्पन्नम् । सारयन्तं रसादुपरमयन्तम् । उरसा पयोधरभारेण परिरम्भेण रमयन्ती रन्तुं प्रयुञ्जाना आत्मना सुखयन्ती वा, रसायनमजरत्वादिसुखयोगमपि असारमल्पमेवेति मन्यते । सुरतसुखमेव भृशं बहु मन्यते । तथाविधो हि तदाभिमानो [जा]यते । चतुष्पादादिमध्ययमकमेकरूपं व्यवहितम् ॥

218
नयानयालोचनयानयानया—नयानयान्धान् विनयानयायते ।
न यानयासीर्जिनयानया नया—नयानयाम्तं जनयानयाश्रितान् ॥ ४६ ॥

अनया न विद्यतेऽयो विगमो यस्या इति । अनयाऽनया स्थिरा आयतिरभ्युदयो यस्येत्यनयायते ! आनयने प्राप्तौ121 । अन्धान[वलोकना]शक्तान् । विनय नयाभिज्ञान् नयानयसमर्थान् विधेहि । कथं ? नयस्य त्रिवर्गोपायस्यानयस्य तद्विपर्ययस्य चालोचन[ा/?/] विवेचना । तया नयानयालोचनया । अनया अपरोक्षया हेतुभूतया करणेन वा । अपि च यानयानहितोपायान् न अयासीः न प्राप्तवानसि तान्नयान् । आनयनमानयः प्राप्तिस्तमाश्रितान् प्राप्तियुक्तान् प्राप्तान् जनय कुरु । आनयेति यावत् । कथम् ? जिनस्य तथागतस्य यानं यान्ति प्राप्नुवन्ति स्मरन्त्यनेन हितमिति आगमः । तं याति यथावद् वेत्तीति जिनयानयास्त्वम् । अतश्च प्रज्ञाबलादेव हितप्राप्तेर्न क्वचिद् यानं यात्रापरिक्लेशं याति गच्छत्याचरतीति अयानयास्त्वं क्वचि99a दगच्छन् व्यवहित एव सर्वनयनिरन्तरं तथागतसमयम[भ्य]सन् सर्वान्नयान् प्राप्नुहीत्यर्थः । प्रथमतृतीययोः पादयोराद्यन्तयमकमेकरूपमव्यपेतव्यपेतं, द्वितीयचतुर्थयोरादिमध्ययमकमेकरूपमव्यपेतव्यपेतात्मकमिति ॥

रवेण भौमो ध्वजवर्तिवीरवे-रवेजि संयत्यतुलास्त्रगौरवे ।
रवेरिवोग्रस्य पुरो हरेरवे-रवेत तुल्यं रिपुमस्य भैरवे ॥ ४७ ॥

भूमेरपत्यं भौमो नरकासुरः अवेजि विद्रुतः । केन ? रवेण नादेन । कस्य ? ध्वजे वर्तमानस्य वीरस्य विक्रान्तस्य वेः पक्षिणः । गरुत्मत इति यावत् । कुत्र ? अतुलमसमम् अस्त्राणां गौरवं भारो यत्रेत्यतुलास्त्रगौरवे संयति युद्धे । अत एव भैरवे भीमे यस्य ध्वजचिह्नस्येदृशो विक्रमस्तस्यैतस्य तु रोचिष्णो रवेः सूर्यस्येवोग्रस्य219 तेजस्विनः पुरोऽग्रतो रिपुं भौममन्यं वा अवेर्मेषस्यतुल्यमवेत जानीतेति चतुष्पादाद्यन्तयोरेकरूपं व्यपेतयमकमव्यपेतं च ॥

मयामयालम्ब्यकलामयामया-मयामयातव्यविरामया मया ।
मयामयार्तिं निशयामयामया-मयामयामूं करुणामयामया ॥ ४८ ॥

अमूं तामिष्टां काञ्चिद् रूपसम्पत्त्यादियोगात् अय इष्टफलं दैवमस्यास्तीति अयाम् । अर्श आदित्वादच् । गुणवतीम्, किंभूताम् ? मयामयार्तिं डुमिञ् प्रक्षेपणे येन मयः प्रक्षेपः परित्यागो विरह इति यावत् । मय एवामयो विकारस्तस्य स एव वा आर्तिः व्यथा यस्या इति मयामयार्तिं विरहव्याधिपीडिताम् । अतश्च मयामयालम्ब्यकलामयामयाः अविकारो दक्षस्तस्यापकृतस्तेनालम्ब्यो गृहीत इति व्यथाकरत्वात् सरोषमधिक्षिप्तः कलामयश्चन्द्र एव पीडाकरत्वादामयो रोगो यस्य इति मयामया- लम्ब्यकलामयामया । केन ? तेन निशा रात्र्या हेतुना अयातव्यो विरामोऽन्तो यमित्ययातव्यविरामयाऽनवसानया विरहवशात् । अतश्च[न]मानं मा भिदादिषितोङिति122 भिदादिदर्शनादङ् [?] विद्यते येषामित्यमा अपरिमिता यामाः प्रहरा [अ]स्या इत्यमयामया । ततश्चातिदुःखहेतुत्वादधिक्षिप्यते अमयेति, निश्रीकया मा श्रीर्न विद्यतेऽस्या इति कृत्वा अमया [अमं] तद्विरहविकारं यातीत्यमया विरहदुःखपीडितेन सह अमय संगमय123 99b हे करुणामय ! सानुक्रोशमये मित्रेति कश्चित् सुहृदामन्त्र्यते । चतुष्पादाद्यन्तयमकमेकरूपमव्यपेतव्यपेतमिति ॥

मतांधुनानारमतामकामता-मतापलब्धाग्रिमतानुलोमता ।
मतावयत्युत्तमताविलोमता-मताम्यतस्ते समता न वामता ॥ ४९ ॥

ते तव अताम्यतो दुश्चरिताभावात् प्रज्ञाकौशलाद् वार्थसिद्धिं [आप्नुवतः] सम्बन्धिन्यां मतौ बुद्धौ विषये समता रागद्वेषादिवैषम्याभावादेकान्तोचिता220 दक्षिणतैव प्रवर्तते । यदाह- न वामतेति, न दुष्टता काचित् । किंविशिष्टा ? उत्तमताया प्रधान[त्व]स्य विलोमतां प्रातिकूल्यमधमताम् अयती अगच्छन्ती, किंतु अतापेनाकृच्छ्रेण लब्धा प्राप्ता अग्रिमताया अनुलोमता आनुगुण्यं ययेत्यतापलब्धाग्रिमतानुलोमता अ[क्लेशेन सर्वराजपुरोवर्तित्वं त]वेति यावत् । आरमतां तपस्विनामकामतामलुब्धतां मतां प्रशस्तां धुनाना जयन्ती तदुपमितेति यावत् । समता प्रवर्तत इति निगमनीयम् । चतुष्पादादिमध्यान्तयमकं व्यपेतमेकरूपमिति ॥

कालकालगलकालकालमुखकालकाल-कालकालपनकालकालघनकालकाल ।
कालकालसितकालका ललनिकालकाल-कालकालगतु कालकालकलिकालकाल ॥ ५० ॥

कालकालो महाकालः शङ्करः तम्य गलः कण्ठः कलिरेव कालः । कालमुखो गोलाङ्गलः । कालकालगलश्च कालश्च कालमुखश्च तेषां कालकं कृष्णत्वम् । तदालाति गृह्णातीति मूलविभुजादिदर्शनात् कः । कालकालगलकालकालमुखकालकालः । कालं कायन्ति शब्दायन्ते इति कालका मयूराः तेषामिदं कालकं, कालकं च तदालपनं कं रुतं चेति कालकालपनकम् । अलीनां समूह आलः । आलवत् कालाः कृष्णा घना मेघा यस्मिन् काले स आलकालघनकालः । स चासौ कालकालपनकालकालघनकालकालश्चेति विशेषणसमासः । तद्वत् कालः कृष्ण इति विष्णोरामन्त्रणमिदम् । कमुदकमालवन्तीति [? आलान्तीति] कालाः । पूर्ववत् कः । काल एव कालकाः स्वार्थे कः । कालकैर्मेघैः । तदुपजीविभिः परिवारभूतैरालसति भातीति कालकालसि समुद्रे, क्विवन्तस्य सप्तम्यन्तस्य रूपम् । तत्र तका[? उत्का] विष्णुविरहात् कृच्छ्रजीवितात् लकालोका[?] ललनिका स्त्रीः लक्ष्मीरिति यावत् । किंविशिष्टा ? अलकानामालिः124

[सन्दष्टयमकलक्षणं उक्तार्गतमपि विशिष्योच्यते—]

सन्दष्टयमकस्थानमन्तादी पादयोर्द्वयोः ।
उक्तान्तर्गतमप्येतत् स्वातन्त्र्येणात्र कीर्त्यते ॥ ५१ ॥

[* * * *]

221

[तदुदाहरति—]

उपोढरागाप्यबला मदेन सामदेनसा मन्युरसेन योजिता ।
न योजितात्मानमनङ्गतापिता—ङ्गतापि तापाय ममास नेयते ॥ ५२ ॥

[* * * *]

[समुद्गयमकलक्षणमाह—]

अर्धाभ्यासः समुद्गः स्यादस्य भेदास्त्रयो मताः ।
पादाभ्यासोऽप्यनेकात्मा व्यज्यते स निदर्शनैः ॥ ५३ ॥

[* * * *]

[व्यवहितं समुद्गमुदाहरति—]

ना स्थेयःसत्त्वया वर्ज्यः परमायतमानया ।
नास्थेयः स त्वयावर्ज्यः परमायतमानया ॥ ५४ ॥

[* * * *]

[अव्यवहितं समुद्गमुदाहरति—]

नरा जिता माननया समेत्यन राजिता माननयासमेत्य ।
विनाशिता वै भवतापनेनविनाशिता वैभवतापनेन ॥ ५५ ॥

[* * * *]

222

[व्यवहिताव्यवहितं समुद्गमुदाहरति—]

कलोपिनां चारुतयोपयन्तिवृन्दानि लापोढघनागमानाम् ।
वृन्दानिलापोढघनागमानांकलापिनां चारुतयोऽपयन्ति ॥ ५६ ॥

[* * * *]

[99b 10] यमिति । वृन्दानिलापोढघनागमानां हंसानामिति यावत् । आरुतयो निनदा अपयन्ति विरमन्ति चेति समुद्गस्य त्रयो भेदा निदर्शिताः ॥

पादाभ्यास100a मधिकृत्याह—

न मन्दयावर्जितमानसात्मयानमन्दयावर्जितमानसात्मया ।
उरस्युपास्तीर्णपयोधरद्वयंमया समालिङ्ग्यत जीवितेश्वरः ॥ ५७ ॥

दयया अनुग्रहेण वर्जितं विरहितं मानसं चित्तं यस्य तादृश आत्मा आवर्जितः स्वीकृतश्च मानो गर्वः तेन सात्मा स्वभावीभूतोऽभ्यासाद् यस्याः तयैवंभूतया मया मन्दया जडया[नमन्] प्रणिपतन् जीवितेश्वरः प्रियः न समालिङ्ग्यत न परिष्वक्त इत्यनुशोचति काचित् । कथम् ? उपास्तीर्णं निवेशितं भरन्यस्तपयोधरद्वयं यस्मिन् समालिङ्गन इति क्रियाविशेषणम् । कुत्रेत्यपेक्षायामुरसीति योज्यम्, असमस्तत्वादिति ॥

सभासुराणामबला विभूषितागुणैस्तवारोहि मृणालनिर्मलैः ।
स भासुराणामबला विभूषिताविहारयन्निर्विश सम्पदः पुराम् ॥ ५८ ॥

223 तव गुणैर्मृणालवन्निर्मलैः परिशुद्धैः सुराणां सभा देवपर्षदारोहि कीर्तिद्वारेण प्राप्ता । किंभूता ? [अबला] बलनाम्नोऽसुरस्य शक्रनिरस्तस्य तत्रासम्भवात्, न विद्यते बलोऽस्यामिति कृत्वा । वसत्यस्यामित्युषिता गत्यर्थानाप्यादाधारे(?) च इत्याधारे क्तः । विभोः शक्रस्य उषिता वासाधारः विभूषिता शक्राध्यासिता । धर्मार्थकाममयैर्गुणैर्व्याप्तभुवनः स त्वमिदानीं पुरां वरभवनयुजां नगराणां भासुराणां विभूतिभिर्भ्राजिष्णूनां सम्पदोऽभ्युदयान् सुखानि निर्विश अनुभव । अबलाः स्त्रियः विभूषिताः विहारयन् भ्रमयन् [रमय]न्निति । कृतकृत्यस्य कामोपभोगो दर्शित इति ॥

कलं कमुक्तं तनुमध्यनामिकास्तनद्वयो च त्वदृते न हन्त्यतः ।
न याति भूतं गणने भवन्मुखेकलङ्कमुक्तं तनुमद्ध्यनामिका ॥ ५९ ॥

कलं मधुरम् । उक्तं वचनम् । स्तनद्वयी पयोधरयुगलं च तनोः शरीरस्य सम्बन्धिनो मध्यस्य नामिका आवर्तिका स्त्रीणामित्यर्थात् । कं नाम नरं न हन्ति ? किं तु सर्वमेव हन्ति । अभिलाषादिकामावस्थाः क्रमेण दशमीं नयन्तीति कृत्वा हन्तीत्युच्यते । त्वदृते त्वामन्तरेण । त्वमेव केवलमनेन [न] हन्यसे जितेन्द्रियत्वात् । तनुमद्ध्यनामिकेत्यत्र तनुत्वमाने हिशब्दो यस्मादर्थे । यत एवम्, अतः कारणात् भवान् मुखमादिः गुणैरग्रनीतत्वात्125, यस्मिन् गणने सत्पुरूषसंख्यायां तस्मिन् भवन्मुखे गणने क्रियमाणे कलङ्कमुक्तं निर्दोषं तनुमत्, भूतं126 सकलनिष्कलपरिमाणव्यतिरिक्तं भूतं पुरुषं व्याप्यभूतम् । अनामिका कनिष्ठानन्तराङ्गुलिर्न याति न गच्छति । [त्वां प्रथमं कनिष्ठिकायां गुणवत्त्वया गणयित्वा [स्थितस्य] त्वमिव निष्कलङ्को द्वितीयायामनांमिकायां गणयितव्यो 100b नास्तीत्यर्थः ॥

यशश्च ते दिक्षु रजश्च सैनिकावितन्वतेऽजोपम ! दंशिता युधा ।
वितन्वतेजोऽपमदं शितायुधाद्विषां च कुर्वन्ति कुलं तरस्विनः ॥ ६० ॥

224 अजोपम विष्णुतुल्य ! ते तव सैनिकाः सेनाचरा नराः शितमायुधमेषामिति शितायुधाः तीक्ष्णहेतयः । दंशिता वर्मिताः । तरस्विनः शूराः सन्तः यशश्च कीर्ति च ते रजश्च पार्थिवं दिक्षु वितन्वते विस्तारयन्ति । युधा रणेन तुमुलेन । द्विषां च कुलं [वि]तनु प्रहारशतजर्जरत्वाद् विगतशरीरम् । न विद्यते तेजोऽस्येत्यतेजः निष्प्रभावम् । विगतो मदोऽस्मादित्यपमदं वीतगर्वं कुर्वन्तीति ॥

बिभर्ति भूमेर्वलयं भुजेन तेभुजङ्गमोऽमा स्मरतो मदञ्चितम् ।
शृणूक्तमेकं स्वमवेत्य भूधरंभुजङ्गमो मा स्म रतो मदं चितम् ॥ ६१ ॥

ते तव भुजेन अमा सह भूमेर्वलयं महीमण्डलं बिभर्ति धारयति भुजङ्गमः शेषो नागराजः । नक एव ते भुजः । [अतः] स्वमात्मीयं भुजं बाहुं भुवं पृथिवीं धारयति वहतीति भूधरमवेत्य ज्ञात्वा मम भुजो स्वयं धारयतीति मदमहङ्कारं चितमुपचितमुदीर्णं [रतः] अभिनिविष्टः सन् मा स्म गमस्त्वं मा गच्छतु भवान् । इतीदमेकं प्रधानमुक्तं वचनम् । अञ्चितं हितं शृणु गृहाण । मत् मत्तः सकाशात् स्मरतः जानतः । प्राप्तज्ञानः एवमुदास्ते भवान् यदि न विरुद्धं [व्यवहरति], तदा सुतरां शोभते विनयालङ्कतगुणत्वादितीदमेकं मद्वचनं सर्वगुणभूषणं ग्राह्यमिति ॥

स्मरानलो मानविवर्धितो यःस निर्वृतिं ते किमपाकरोति ।
समन्ततस्तामरसेक्षणे नसमं ततस्तामरसे क्षणेन ॥ ६२ ॥

हे तामरसेक्षणे पद्माक्षि ! न विद्यते रसः कामादरो यस्या इत्यरसेऽरसिके ! प्रियसङ्गमसुखवैमुख्यादेवमामन्त्रिता सरोषम् । स्मरः काम एव अनलः तापकारित्वात् । स्मरानलो यो मानेन प्रियसङ्गमविरोधेन गर्वेण वर्धितो दीपितः, सोऽयं क्षणेनैकेन समं सह नाधिकेन कालेन ततो विस्तृतः क्षणमात्रेण विजृम्भितः ते तव निर्वृतिं सुखतां प्रति विशिष्टायासं प्रयोगसम्भवं समन्ततः सर्वथा किं नापाकरोति न हन्ति ? अपाकरोत्येव । तस्मात् संगम्यतां प्रियम् । किमनेन दग्धमानेनेति ॥

225
प्रभावतो नामन वासवस्यप्रभावतोऽनाम नवासवस्य ।
प्रभावतो नाम न वा सवस्यविच्छित्तिरासीत् त्वयि पिष्टपस्य ॥ ६३ ॥

प्रभा अस्यास्तीति प्रभावतो दीप्तिमतः गुणोत्कर्षात् । वासवस्य शक्रस्य । नामयतीति हे नामन जेतः ! प्रभावतः प्रभावात् शक्तिविशेषप्रभावेण शक्रतुल्येति यावत् । नमनं नामः स न विद्यतेऽस्येति हे अनाम ! परप्रणिपातानभिज्ञ ! सर्वातिरेकात् । यत एवं 101a गुणयुक्तो भवान्, अतः कारणात् त्वयि पिष्टपस्य जगतः प्रभौ स्वामिनि सति सवस्य यागस्य नवः प्रत्यग्र आसवः सोमो विलक्षणः पानविशेषः अस्मिन्निति नवासवस्य सोमयागस्येति यावत् । विच्छित्तिर्विघातः । नाम सर्वथा वाचोयुक्तौ वा । न वा नैवासीदभूत् । सर्वदा धर्मक्रिया प्रवर्तत इति कश्चिन्नरपतिः स्तूयते ॥

परं पराया बलवा रणानांधूलीः स्थलीर्व्योम विधाय रुन्धन् ।
परंपराया बलवारणानाम्परं पराया बलवारणानाम् ॥ ६४ ॥

परमुत्कृष्टम् । गुणयोगात् परं शक्र परायाः त्वं युद्धरसेनातिगतवानसि । किंभूतम् ? बलं सामर्थ्यं वारयतीति बलवाः । वारयतेः क्विबन्तस्य रूपम् । कस्य ? रणानां परसमराणां परयुद्धाभिभावीति (?) कुर्वन् । बलवारणानां सेनागजानां बलं प्राणं वाति गच्छतीति बलवः । आतोऽप्रादेः कः । सप्राणः आरणः शब्दो येषामिति बलवारणानां गम्भीरोदीर्णगर्जितानां सम्बन्धिन्याः परम्परायाः परिपाट्या घटायाः सत्त्वादियोगात् प्रकृष्टायाः सकाशात् धूलीः स्थलीः पांशुप्रकरान् तत्प्रेरणाय विधाय कृत्वा पराया इति परम्पराया इति बाह्यधूली स्थलीविकारेति । लुग्लोपलक्षणा पञ्चमी । व्योमाकाशं रुन्धन्नावृण्वन् पराया इति प्रकृतम् ॥127

226
न श्रद्धधे वाचमलज्ज ! मिथ्या-भवद्विधानामसमाहितानाम् ।
भवद्विधानामसमाहितानांभवद्विधानामसमाहितानाम् ॥ ६५ ॥

हे अलज्ज ! भवद्विधानां युष्मादृशानाम् । असमाहितानां विक्षिप्तचेतसां भवे संसारे द्वौ प्रकारौ अहङ्कारममकारौ रागद्वेषौ वा येषामिति भवद्विधानाम् । अत एव यथा आत्मा न वञ्चनीय[ः/?/] तथा परोऽपीति समप्रवृत्त्यभावादसमाहितानाम् । असमाश्च तेऽहिताश्चेति विग्रहः । अत एव न विद्यते हितं श्रेयो धर्मो येषामिति अहितानां वाचं मिथ्या भवत् वितथं जायमानं विधानमनुष्ठानमन्यथा विधायान्यथाकरणाद् यस्यामिति मिथ्याभवद्विधानाम् । अत एवासमस्यातुलस्य महतः अहेः सर्पस्येव तानो गतिः कौटिल्यादियोगात् यम्यामित्यसमाहितानां गिरो न श्रद्दधे न 101b प्रत्येमीति केनचित् कश्चित् सरोषमधिक्षिप्यत इति ॥

सन्नाहितोमानमराजसेनसन्नाहितोमानमराजसेन ।
सन्ना हितोमानमराजसेनसन्नाहितो मानम राजसे न ॥ ६६ ॥

अहितानामुमाभिख्या अहितोमा । सन्ना नि[र]स्ता अहितोमा यत इति हे सन्नाहितोम निरस्तशत्रुशोभ ! आनमतीत्यानमः कर्तर्यच । राज्ञः सेना राजसेना । आनमा आनता राजसेना यस्मिन्निति हे आनमराजसेन ! न नमतीत्यनमः हे अनम ! रजसो विकारो राजसो दुष्टः । न राजसोऽराजसः सात्त्विकः । हे अराजस ! इन स्वामिन् ! हिता उमा गौरी यस्य स हितोमः । न विद्यते मा श्रीरस्येत्यमः । न अमोऽनमः सश्रीकः । राजा चन्द्रः । स [ललाटभूषा] यस्येति अनमराजा, हितोमश्चासौ अनमराजा च हितोमानमराजा शङ्करः । तेन सेनः सनाथः तद्युक्तोऽहितमानमराजसेनः । [तस्य सम्बुद्धिः] । सन्नाहितो दंशितः मानमाहितः आगतः प्राप्तः सन्ना सत्पुरुषः स न भवन् त्वं मा न राजसे, एवं चानेकगुणयुक्तस्त्वमतितरां राजस इत्यर्थः । अत्र हेतुफलभावो यथायथं योजनीयः । यतः सन्नाहितः, तस्मादानमराज227 सेनः सन्नाहितोमश्च, यतश्च मानमाहितः, तस्मादनमः । यतश्च हितोमानमराजसेनः, तस्मादसन्ना अराजसश्च । यतश्चैतदेवं अतो राजसे वा नेति ॥

सकृद् द्विस्त्रिश्च योऽभ्यासः पादस्यैवं प्रदर्शितः ।
श्लोकद्वयं तु युक्तार्थं श्लोकाभ्यासः स्मृतो यथा ॥ ६७ ॥

सकृदेकवारं द्विः वारद्वयं त्रिः वारत्रयं च पादस्य सम्बन्धी योऽम्यासः स एवम् उक्तेन प्रकारेण दर्शितः समुदाहृतः । श्लोकयोर्द्वयं द्वौ श्लोकौ युक्तोऽर्थोऽभिधेयं येनेति युक्तार्थमपृथगर्थयुक्तम्, इत्यनूद्य श्लोकाभ्यासः स्मृतो विज्ञायते इति विधीयते यथेत्युदाहरति ॥

विनायकेन भवता वृत्तोपचितबाहुना ।
स्वमित्रोद्धारिणाभीता पृथ्वीयमतुलाश्रिता ॥ ६८ ॥

भवता त्वया, विनयति जगत् सनातने मार्गे निवेशयतीति [तेन] विनायकेन विनेत्रा । वृत्तो वर्तुल उपचितः पीनो बाहु102a रस्येति वृत्तोपचितबाहुना । सुष्ठु अमित्राण्युद्धरतीति स्वमित्रोद्धारिणा इयं पृथ्वी भूमिरभीता स्वपरचक्रोपद्रवाभावात् निर्भया, अतुला विपक्षैस्तुलयितुमशक्यत्वाद् अपरोपमा, आश्रिता अधिष्ठिता वर्तत इति कश्चिद् राजा स्तूयत इत्यनेनार्थेन तावदेकः श्लोकः ॥

तव तावदीदृशोऽभ्युदयः, त्वद्विपक्षस्य का गतिरित्ययमेव श्लोकोऽर्थान्तरेणाभ्यस्यते—

विनायकेन भवता वृत्तोपचितबाहुना ।
स्वमित्रोद्धारिणाभोता पृथ्वी यमतुलाश्रिता ॥ ६९ ॥

विगतो नायकोऽस्मादिति विनायकेन नेतृशून्येन त्वयि रुष्टे परित्रायकस्याभावात् । भवता सता । चितायाः समीप उपचितम् । वृत्त उपरतो निर्जीवः [स्वपक्ष]समुदायोपरमात् उपचितो बाहुरस्येति वृत्तोपचितबाहुना । अत एव सुहृत्परित्यागात् स्वानि मित्राणि उज्जहातीति स्वमित्रोद्धा, [उत्पूर्वकस्य ओहाक् त्यागे इत्यस्य] क्विबन्तस्य तृतीयैकवचनान्तस्य रूपम् । अरिणा त्वया विपक्षेण । अभीता अभिमुखमागता । पृथ्वी महती यमस्य तुलां उपमालक्षणाम् । आश्रिता प्राप्ता ।228 त्वदरातेः पुनरीदृशी गतिः । अनेनार्थान्तरेण स एव श्लोक अभ्यस्त इति श्लोकाभ्यासोऽयमीदृशः ॥

एकाकारं चतुष्पादं तन्महायमकाह्वयम् ।
तत्रापि दृश्यतेऽभ्यासः सा परा यमकक्रिया ॥ ७० ॥

एकः समान आकारः स्वरूपं येषामित्येकाकारः, सर्वतो यमकयोगात् चत्वारः पादा यस्य यत्रेति वा । एकाकारचतुष्पादं यत्, तदीदृशं महच्च यत् तद् यमकं च, सर्वयमकप्रधानत्वात्, महायमकमित्याह्वयः संज्ञा अस्येति महायमकाह्वयं वेदितव्यम् । एकाकारचतुष्पादत्वं प्रत्येकं सर्वतो यमकयोगाद् विनाभ्यासादपि सम्भवतीत्याह—तस्यापीत्यादि । तस्यापि महायमकस्यापि न केवलं समूहादेरभ्यासः त्रिपादावृत्तिर्दृश्यते । अत एवेयमीदृशी परा सर्वयमकक्रियाप्रधानत्वात् । यमकस्य क्रिया प्रयोगः । अत एवेदं 102b त्रिपादाभ्यासाद् भिद्यते । तत्र प्रत्येकं पादेषु सर्वतो यमकाभावात् केवलं पादयमकमात्रं त्रिरभ्यस्यते ॥

तदुदाहरन्नाह—

समानयासमानया समानया स मानया ।
समानयासमान या समानयासमानया ॥ ७१ ॥

यासः प्रयासः खेदः । मानश्च प्रियविषयं प्रातिकूल्यम् । यासमानौ तुल्यौ, यदा समाना, तदायासोऽपीति समकालत्वात् । यथा चायासस्तापयति तथा मानोऽपि प्रियसङ्गमसुखविरहादिति । यस्याः तया समानयासमानया । सह मानेनार्हणेन गुणयोगाद् वर्तत इति समानया मान्यया अनया कयाचिदिष्टया । स त्वम् । असम गुणोत्कर्षादनुपम ! [मा] मां समानय संगमयेति कञ्चित् सुहृदमभ्यर्थयति कश्चित् कामी । पुनः सा विशिष्यते—या प्रणयिनी सह मया श्रिया वर्तत इति समा कान्तिमती । अनयस्याकार्यस्यासौ निषेधः तस्य मानं प्रमाणमनुभवं यातीति अनयासमानया । अकार्यपरिहारज्ञतया अनयासमानयेति निगमनीयम् ॥

यदुक्तम्—

अत्यन्तबहवस्तेषां भेदाः संभेदयोनयः
128

229

तत्र दिङ्मात्रं सुकररूपं दर्शयन्नाह—

धराधराकारधरा धराभुजांभुजा महीं पातुमहीनविक्रमाः ।
क्रमात् सहन्ते सहसा हतारयोरयोद्धुरा मानधुरावलम्बिनः ॥ ७२ ॥

धरां धारयतीति धराधरः शेषो भुजगराजः, तस्याकारं सादृश्यं धारयन्तीति धराधराकारधराः । धराभुजां राज्ञां भुजा बाहवः । अहीनः पर्याप्तो विक्रमः शौर्यम् एषामित्यहीनविक्रमाः । सहसा त्वरितमकालक्षेपेण हता अरयोऽमीभिरिति हतारयः । रयेण वेगेन रंहसा उद्धुरा दुर्धराः । मान एव धूः कृत्यम् । मानधुरामवलम्बत इति मानधुरावलम्बिनः । महीं पृथिवीं पातुं रक्षितुं सहन्ते कल्पन्ते तादृशगुणयोगात् । क्रमात शास्त्रविहितेन क्रमेण न्यायेनेति यावत् । इह संदष्टयमकमादिमध्ययमकव्यपेतं मध्ययमकं व्यपेतमिति संभिन्नमुदाहृतम ॥

आवृत्तिः प्रातिलोम्येन पादार्धश्लोकगोचरा ।
यमकं प्रतिलोमत्वात् प्रतिलोममिति स्मृतम् ॥ ७३ ॥

103a आवृत्तिरभ्यासः । कथं ? प्रातिलोम्येन प्रतीपतया लक्षिता, नानुलोम्येन, किंविषया ? पादश्चार्धश्च प्रकरणात् श्लोकस्य, श्लोकश्च [तेषां] समुदायः गोचरो विषयो यस्या इति पादार्धश्लोकगोचरा । पादगोचरा, अर्धविषया, श्लोकाश्रया चेति त्रिविधमनूद्य प्रतिलोमं नाम यमकं स्मृतमिति विधीयते । कुतः ? प्रतिलोमत्वात् तस्या इति गम्यते । प्रतिलोमेति कृत्वा । यत् त्वनुलोम्ना स पादाभ्यासादिरिति भावः ॥

तदुदाहरन्नाह—

यामताश कृतायासा सा याता कृशता मया ।
रमणारकता तेऽस्तु स्तुतेताकरणामर ॥ ७४ ॥

कृशस्य भावः कृशता । कृतो जनित आयासः श्रमो ययेति कृतायासा । या कृशता दौर्बल्यम् । सा याता प्राप्ता मया अमता प्रतिकूलतां [गता] आशा, अर्थात्230 सुरतमनोरथो यस्येति हे अमताश मत्सङ्गमासहिष्णो ! हे रमण ! अकरणेनाकृतिमत्त्वेन अमर ! अकरणामर सत्यदेव ! यद्वा अकरणे अविहिते प्रमत्त ! अमर देव ! तव स्तुतम् । तदितः प्राप्तः हे स्तुतेत वर्णनेन प्राप्त ! ते तव अरकता गमनमेवास्तु । किमागमनेन, इयर्ति गच्छतीत्यरको [गन्ता] ततो भावप्रत्ययस्तल् विधीयते । समयमतिक्रम्यागतः कश्चित् प्रियः कयाचित्तु सरोषमित्थमधिक्षिप्यते । इदं पादप्रतिलोमयमकम् । प्रथमस्य तृतीयस्य च पादस्य [क्रमशः] प्रातिलोम्येन पाठे श्लोकनिष्पत्तिः ॥

नादिनोऽमदनाधीः स्वा न मे काचन कामिता ।
तामिका न च कामेन स्वाधीना दमनोदिना ॥ ७५ ॥

नादो नाम तत्त्वविशेषः शैवसमयप्रसिद्धः स विद्यतेऽस्येति नादिनो मे मम स्वा स्वकीया धीः । न विद्यते मदनः कामोऽस्यामिति अमदना ततश्च स्वाधीना सदृशवर्तिनी भवतु । एवं किमतः ? ततश्च मे मम न काचन न काचित् कामिता विषयाभिलाषः । कामेन दमं नुदतीति तेन दमनोदिना प्रशमप्रत्यनीकेन हेतुना ते तदभावादेव तामिका न भवितुमर्हति । कामनिमित्तः सन्तापो नास्तीत्यर्थः । इदमर्धप्रतिलोमयमकम् । अत्रार्धान्तरमारभ्य प्रातिलोम्येन पाठे श्लोकनिष्पत्तिरिति ॥

यानमानयमाराविकशोनानजनासना ।
यामुदारशताधीनामायामायमनादि सा ॥ ७६ ॥

मानमवलेपं यातीति मानयः दृष्टः त्रैलोक्यं विजग्राह । मानयश्चासौ मारश्चेति मानयमारः । तमवितुं रक्षितुं साधनभावेन तत्सामर्थ्यानुग्रहात्, शीलं यस्या इति मानयमारावी । स चासौ कशा प्रतोदश्चेति मानयमाराविकशा या काचिद् भवेत् तस्या ऊना हीना असमाना या न भवति किं तु समानैव तद्वत् कामसाधनत्वात् । यदाह— आनेत्यादि । अन.........सत्यानाः कर्तर्यत् समर्था इन्द्रियजयादियोगात् । जनाः, तेषामसनं क्षेपोऽतितरां यत्रेति अनाजनासना । मुनीनामपि रागजननी अत एवोदाराणां महतां शते बहुत्वोपलक्षणम् । अधीना यस्मात् सेवनात् यामायाम जितवानस्मि । सा अनादि नदिता भणिता । नान्या । किम् ? आयम् आगमनम् । आगच्छति, आहुतेति यावत् । कश्चिदितिवृत्तमात्मनः कञ्चित् कथयति । आनुलोम्येन तावदयं श्लोकः ॥

231

प्रातिलोम्येनायमेवावर्तते—

सा दिनामयमायामा नाधीता शरदामुया ।
नासनाजनना शोकविरामाय न मानया ॥ ७७ ॥

सा काचिदभिमता स्त्री दिनमेवामयो विकारोऽत्यन्तरुक्षत्वात् दिनामयम् अधीता अधीगता प्राप्ता न न भवति किं तु अधीतैवात्यन्तसौकुमार्यात् । अत एवायः आगतः अनुभाव्यः आमः पीडा ययेति आयामा । केन ? अमुया प्रत्यक्षवर्तिन्या शरदा अतिदीप्रदिवाकरया हेतुना, अत एव च न जननमजननम् । आसनस्यावस्थानस्याजननमकरणं यया इति आसनाजनना सुखासिकामलभमाना शोकस्य त्वद्विरहसम्भवस्य विरामाय विनोदाय शोकाभिभवार्थं मानमहङ्कारं शोकमभिभवामि इत्येवं रूपं यातीति मानया भवति । त्वद्वियोगसम्भवं शोकमभिभवितुं न शक्नोति इत्यर्थः । श्लोकप्रतिलोमयमकम् ॥

॥ इति यमकचक्रम् ॥
  1. निर्वेशस्तु पुमान् भोगे वेतने मूर्च्छनेऽपि च इति मेदिनी ॥

  2. विष्णु मानमं जे जनमित्यादर्शे ।

  3. संञ्जिनेत्यादर्शे ।

  4. इतः परं —कश्चन वाक्यभागो भ्रष्ट इवाभाति ।

  5. चान्द्रव्याकरणे १. ३. ८६

  6. आगमसंगय इत्यादर्शे

  7. इतः परं षट्पञ्चाशत्तमश्लोकस्यान्तिमभागपर्यन्तं टीका लिपिकरप्रमादाद् भ्रष्टा ।

  8. एतान् सुखादिगुणान् प्रणीत्वात् इत्यादर्शे ।

  9. नृत्यामित्यादर्शे ।

  10. अत्र श्लोके भोटपाठक्रमो वादिजङ्घालसमर्थितः स्वीकृतः ।

  11. ३.३