मानेन मानेन सखि प्रणयोऽभूत् प्रिये जने ।
खण्डिता कण्ठमाश्लिष्य तमेव कुरु सत्रपम् ॥ ४ ॥

सखि ! प्रिये जने विषयेऽनेन सङ्गमसुखविरोधिना मानेन प्रातिकूल्येन सह प्रणयपरिचयो मा भूत् । तव मानो न कार्य इति यावत् । यदि न मानः कर्तव्यः किमिदानीं क्रियताम् ? येन खण्डिता वञ्चितासि तस्य कण्ठमाश्लिष्य तमेव प्रियं कृतव्यलीकं सत्रपं सलज्जं कुरु विनयवर्त्मना तमेव विलक्षं विधेहि । किं मानेनेति ? शब्दार्थप्रधानमेतद् यमकव्याख्यानं क्रियते, भावार्थचर्चायामतिविस्तरप्रसङ्गात् । इदं प्रथमपादादियमकम् ॥