92b तदेवमर्थालङ्कारं परिच्छिद्यानुप्रास[प्रस]ङ्गोक्तलक्षणानुवादेन यमकप्रपञ्चपुरःसरं दुष्करपरिच्छेदमारिप्सुराह—

अव्यपेतव्यपेतात्मा व्यावृत्तिर्वर्णसंहतेः ।
यमकं तच्च पादानामादिमध्यान्तगोचरम् ॥ १ ॥

वर्णानां स्वरव्यञ्जनानां संहतेः समुदायस्य व्यावृत्तिरावृत्तिः पुनरुच्चारणम् । नैकस्य वर्णस्य, तस्या अनुप्रासत्वात् । यथोक्तम्— वर्णावृत्तिरनुप्रासः १. ५५ इति । तत्प्रसङ्गेन आवृत्तिमेव सङ्घातगोचरां यमकं विदुः १. ६१ इति कृतलक्षणं यमकम् । तदेवमनूद्य यमकं विधीयते । सा च व्यावृत्तिः [कीदृशी ?] वर्णान्तरेणाव्यपेतोऽव्यवहितः व्यपेतो व्यवहितश्चात्मा स्वरूपं यस्या इत्यव्यपेतव्यपेतात्मा । तथा वर्णान्तराव्यवहिता वर्णसंहतेरावृत्तिरव्यपेतयमकम् । या तु व्यवहिता तद् व्यपेतयमकमिति द्विधा यमकं तावद् विकल्प्यते । तच्चैतद् द्विविधं यमकं विषयनिरूपणायामादिश्च मध्यश्चान्तश्च गोचरो विषयोऽस्येत्यादिमध्यान्तगोचरं विज्ञेयम् । कस्य ? पादानां प्रत्येकं चतुर्णां श्लोकावयवानाम् । सापेक्षार्थे गमकत्वात् समासः ॥

पादचतुष्टयस्यादिमध्यान्तभाविनो यावन्तः प्रकाराः सम्भवन्ति तान् दर्शयति—

एकद्वित्रिचतुष्पादयमकानां विकल्पनाः ।
आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः ॥ २ ॥

एकपादयमकस्य द्विपादयमकस्य त्रिपादयमकस्य चतुष्पादयमकस्य [च] विकल्पना विकल्पाः प्रभेदाः कथ्यन्ते भवन्तीति वा शेषः । पादस्यैकस्य पादद्वयस्य पादत्रयस्य पादचतुष्टयस्य वा आदितो वा मध्यतो वान्ततो वा । आदौ मध्येऽन्ते वेति त्रयो विकल्पास्तावत् । मध्यतोऽन्ततश्चादिमं वर्जयित्वेति चतुर्थो विकल्पः । मध्यत आदितश्चान्त्यं विहायेति पञ्चमः । आदितोऽन्ततश्च मध्यं त्यक्त्वेति षष्ठः ।