देशोऽद्रिवनराष्ट्रादिः कालो रात्रिंदिवर्तवः ।
नृत्यगीतप्रभृतयः कलाः कामार्थसंश्रयाः ॥ १६२ ॥

अद्रिः मलयपर्वतादिः । वनं कालिङ्गादि । राष्ट्रं दक्षिणापथादिकम् । आदिशब्देन नदीधन्वादिपरिग्रहः । स तादृशो देशो विज्ञायते । रात्रिर्दिवा च रात्रिंदिवम् । ऋतवश्च प्रावृडादयः षडिति रात्रिंदिवर्तवः कालविशेषत्वात् कालः सामान्येन विज्ञायते । नृत्यं ताण्डवं लास्यं च । नानारसभावाभिनयाङ्गहारादिरूपं गीतं ज्ञेयम् । तच्च

गान्धर्वं त्रिविधं विद्यात् स्वरतालपदात्मकम् ।
153 इति त्रिधा,
तस्य योनिर्भवेत् कण्ठो वीणा वंशस्तथैव च ॥
154 इति त्रियोनिकम् । विस्तरतया तच्छास्त्र एवाधिकृतम् । तादर्थ्यात् तत्प्रतिपादकं शास्त्रं नृत्तं गीतं प्रभृति प्रमुखं यासां वाद्यादिविद्यानां ता नृत्तगीतप्रभृतयः कलाविद्याः । कामो विशिष्टो विषयोपभोगः । अर्थश्च विचित्रोपकरणरूपः । संश्रयः अधिष्ठानम्,269 तद्भावभावित्वाद् यासां [कलानां]मिति कामार्थयोः संश्रयाः । साक्षात् पारम्पर्येण तु धर्मोऽप्यासामाश्रयः स्यात्, तन्मूलत्वादर्थकामयोः ॥

  1. नाट्यशास्त्रे २८. ११
  2. तत्रैव २८.१०