वर्णानामेकरूपत्वं यद्येकान्तरमर्धयोः ।
गोमूत्रिकेति तत् प्राहुर्दुष्करं तद्विदो यथा ॥ ७८ ॥

अर्धयोः श्लोकसम्बन्धिनोरभिव्यक्त्यर्थः उपर्यधोभावेन लिखितयोः सम्बन्धिनां वर्णानां निरन्तराणामेकरूपत्वं सारूप्यं तेषामेव वर्णानां समुत्थानात् । एकैकमक्षरमन्तरं व्यवधानमस्मिन्नित्येकान्तरम् एकैकवर्णव्यवधानं यदि भवति निरन्तरपाठवदर्धयोरौत्तराधर्येण एकैकवर्णान्तरपाठे स एव श्लोको यदि 104a निष्पद्यत इत्यर्थः । तदीदृशं दुष्करं गोमूत्रिकेति अभिधानेन प्राहुः व्यवहरन्ति तद्विदो गोमूत्रिकाबन्धवादिनः । यथेत्युदाहरति ॥