104a निष्पद्यत इत्यर्थः । तदीदृशं दुष्करं गोमूत्रिकेति अभिधानेन प्राहुः व्यवहरन्ति तद्विदो गोमूत्रिकाबन्धवादिनः । यथेत्युदाहरति ॥

मदनो मदिराक्षीणामपाङ्गास्त्रो जयेदयम् ।
मदेनो यदि तत् क्षीणमनङ्गायाञ्जलिं ददे ॥ ७९ ॥

मदिराक्षीणां स्त्रीणाम् । अपाङ्गं कटाक्ष एवास्त्रमायुधं रागसाधनत्वाद् यस्येति अपाङ्गास्त्रः देवदत्तस्य गुरुकुलमिति यथा । मदनः कामः । अयं लोकविख्यातः ।