107b केना[प्य]तिबलीयसा योद्धुमित्यर्थात् । निनीः.......... नियोक्तुमिच्छुः । अनान् प्राणिनः प्राणोऽनुजीविनोऽस्मान् नयतेः सन्नन्तात् क्विपि रूपम् । इनोऽस्माकं प्रभुः । ना पुरुषोऽयं नानेनाः एनः पापं न विद्यतेऽस्येत्यनेनाः न भवतीति किं तु सपाप एव । ननु वितर्क निश्चये वा, यदेनेनातिमानुषप्रभावेणास्मान् धातयितुमिच्छति । स्वयमप्यत्र योद्धुं प्राप्तः । इति केनचित् अतिबलीयसा योद्धुं नियुक्ताः प्रभुना अनुजीविनो वितर्कयन्ति । अयं नकारमात्रनिबन्धत्वादेकवर्णः श्लोकः ॥

दुष्करमार्गमुपसंहरति—

इति दुष्करमार्गोऽपि किञ्चिदादर्शितक्रमः ।

इत्युक्तेन विधिना दुष्करमार्गो दुष्करोऽपि काव्यप्रकारः । न केवलं सुकर इत्यपि शब्दः । किञ्चिद् ईषत् संक्षेपतः, तथा प्रतिज्ञानात् । क्रियाविशेषणमेतत् । आदर्शित उक्तः क्रमः स्वभावोऽस्येत्यादर्शितक्रमः प्रतिपादित इति दुष्करमार्गेऽपि