232 जयेद् जगद्वशीकुर्यात् । न क्वचित्प्रतिहतशक्तिर्य[दि] यस्मात् इष्टविषयप्रापणात् । मम एनः पापम् अर्थात् तत्प्राप्तिविघ्नभूतम् । क्षीणम् अस्तंगतम् ततः पूर्णमनोरथत्वात् अहमनङ्गाय तस्मै कृपाद्यपपत्तये । तादर्थ्ये क्रियासम्बन्धे वा चतुर्थी । अञ्जलिं प्रणामकरसम्पुटं दधेः रचयामि तमाराधयामीति कश्चित् कामी [काचित्] कामिनी वा ब्रवीति ॥

आहुरर्धभ्रमं नाम श्लोकार्धभ्रमणं यदि ।
तदिष्टं सर्वतोभद्रं भ्रमणं यदि सर्वतः ॥ ८० ॥

औत्तराधर्येण चतुर्षु पादेष्वभिव्यक्त्यर्थं लिखितेषु प्रथममक्षरमारभ्य औत्तराधर्येण द्विराद्यन्ततः क्रमेण पाठे अर्ध निष्पद्यते, पुनस्तथैव परिशिष्टस्य पाठे अपरार्धनिष्पत्तिरिति श्लोकस्य द्वाभ्यां भ्रमणं श्लोकार्धभ्रमणं यदि भवेत् तादृशमर्धभ्रमं नाम दुष्करमाहुरामनन्ति तद्विदः ।

सर्वतोऽनुलोमप्रतिलोमतः पूर्ववदौत्तराधर्येण च यदि भ्रमणं श्लोकस्य भवेत् तादृशं सर्वतोभद्रं नाम दुष्करमिष्टं तज्ज्ञैरिति ॥

तदुभयमुदाहरति—

मनोभव तवानीकं नोदयाय न मानिनी ।
भयादमेयामा मा वा वयमेनोमया नत ॥ ८१ ॥

हे मनोभव ! अत एव सर्वेषां चित्ताधिष्ठानतया हे नत ! प्रत्यासन्न ! देवान्तरवद् यो [न] परोक्षः, मानिनी काचिदिष्टा तव अनीकं सेना जगद्विजयप्रयुक्तत्वात् । [अन्या] सेना कुतश्चित् सभयापि । इयं त्वकुतोभया काचित् सेना इत्याह—भयादित्यादि । [सा] अमः पीडा । अमेयोऽप्रमाणोऽमो यस्या इति अमेयामा [भवतु] मा वा [भूत् । कुतः ?] भयात् [त्वदुत्थात्] कारणान्तरात् मा वा न भवति । सेयमीदृशी तवोदयाय जगद्वि[जय]लक्षणाय न न भवति, किं तु भवत्येव । केचन वयमत्र एनोमयाः पापस्वभावाः । अनुदयभाजस्तिष्ठामः, तत्प्रसादाप्रतिलम्भात्, प्रत्युत निर्दयभावनात् । तदियं प्रसीदतु तव सेनेति अर्धभ्रमम् ॥