कालविरोधमुपसंहरति—

इति कालविरोधस्य दर्शिता गतिरीदृशी ।
मार्गः कलाविरोधस्य मनागुद्दिश्यते यथा ॥ १६९ ॥

271 कालेन रात्र्यादिना यथोक्तेन विरोधस्य व्याघातस्य भारतीविषयस्य ईदृशी गतिः प्रस्थानं दर्शिता । कलया नृत्यगीतादिविद्यया विरोधस्य वचनगोचरस्य मार्गः प्रस्थानं मनाक् किञ्चिद् उद्दिश्यते उदाह्रियते यथेति दर्शयति ॥