121a )रूपो वि]षयः साधु सम्यक् नीयताम् अनुगम्यताम् । क्व पुनरियं कलाचतुःषष्टिः परिज्ञायते, यतस्तद्विरोधगतिरनाकुला स्यादित्याह— तस्या इत्यादि । तस्याः कलाचतुःषष्ट्या रूपम् स्वभावोऽर्थतः [शब्दतश्चा]विर्भविष्यति । यथावदवगम्यते । कलापरिच्छेदे चतुर्थकलापरिच्छेदोऽस्य दण्डिनोऽस्ति स त्विह न प्रवर्तते । यद् वा कलानां परिच्छेदेऽभ्यासे सति तस्याः कलाचतुःषष्टे रूपमाविर्भविष्यति । तस्मात् कलाभ्यासः करणीयः, यतस्तद्विरोधः सर्वो यथावदवगम्यते इति ॥

लोकविरोधमुदाहरन्नाह—

आधूतकेशरो हस्ती तीक्ष्णशृङ्गस्तुरङ्गमः ।
गुरुसारोऽयमेरण्डो निःसारः खदिरद्रुमः ॥ १७२ ॥