कापिलैरसदुद्भूतिः स्थान एवोपवर्ण्यते ।
असतामेव दृश्यन्ते यस्मादस्माभिरुद्भवाः ॥ १७५ ॥

कापिलैः सांख्यैरसतां शक्तिरूपेणाप्यविद्यमानानां उद्भूतिरुत्पादः स्थान एव सत्यमेव । स्थान इत्येकारान्तो निपातो युक्तार्थसूचकः । उपवर्ण्यते विवृतः । यस्माद् असतामेवार्थानाम् उद्भवा जन्मान्यस्माभिर्दृश्यन्ते । एतदपि हेतुविद्याव्याहतम् । सांख्यमते सतामेव भावानां कथञ्चिदाविर्भावस्य व्यवस्थापनात् ॥