लक्षणं तासां कुर्वन्नाह—

आहुः समागतां नाम गूढार्थां पदसन्धिना ।
वञ्चितान्यत्र रूढेन यत्र शब्देन वञ्चना ॥ ९८ ॥

पदयोः सुप्तिङन्तयोः सन्धिना पदघटनेन तादृशेन हेतुना गूढो दुर्बोधः [कृच्छ्रगम्यो]ऽर्थो विवक्षितमभिधेयं यस्या इति गूढार्थप्रहेलिकां समागतामाहुस्तद्विदः । गोपितार्थसमागतपदप्रधानत्वात् समागतेति तादृशी व्यवह्रियते यत्र प्रहेलिकायाम् अन्यत्र वा अर्थान्तरे ॥

रूढेन प्रसिद्धेनार्थान्तरप्रयुक्तेन शब्देन वाचकेन वञ्चना वञ्चनं वा । विवक्षिंताद् अर्थादन्यत्र बुद्ध्युत्पादात् विप्रलम्भो जायते यत्र सा तत्परत्वाद् वञ्चिता नाम विज्ञायते ॥