व्युत्क्रान्तातिव्यवहितप्रयोगान्मोहकारिणी ।
सा स्यात् प्रमुषिता यस्यां दुर्बोधार्था पदावली ॥ ९९ ॥

अतिव्यवहितानामत्यन्तविप्रकृष्टानाम् । यथा मोहो जायते । पदानां प्रयोगोऽभिधानमतिव्यवहितो वा । अतिव्यवहितः प्रयोगतः स्यात् । अत्यन्तव्यवहितपदयोजनाहेतोर्मोहः । सोऽर्थानिश्चयं विपरीतार्थप्रतिपत्तिं [च] करोति जनयतीति मोहकारिणी या सा व्यवहितपदप्रधानत्वाद् व्युत्क्रान्ता नाम प्रहेलिका वेदितव्या ॥

यस्याः प्रहेलिकायाः सम्बन्धिनी पदानामावली समुदायः दुर्बोधः कृच्छ्रगम्यः अर्थोऽभिधेयं यस्या इति दुर्बोधार्था सा प्रहेलिका अपहृतार्थत्वात् प्रमुषिंता नाम स्यात् ॥