समानरूपा गौणार्थारोपितैर्ग्रथिता पदैः ।
परुषा लक्षणास्तित्वमात्रव्युत्पादितश्रुतिः ॥ १०० ॥

या गौणार्था मुख्यादभिधेयादन्यस्मिन्नभिंधेये आरोपितैरव्याप्तैः पदैः शब्दैः ग्रथिता विरचिता सा तादृशार्थान्तरप्रतिपादनपरत्वात् समानरूपा नाम स्मर्यते ॥

242 लक्षणस्य शब्दानुशासनस्यास्तित्वं सद्भावमात्रं प्रयोगप्रभृतिव्यवच्छेदात् । तेन व्युत्पादिताः संस्कृताः श्रुतयः पदानि अप्रहताः यस्यां सा प्रयोगप्रतीती रसविरहात् परुषा नाम स्यात् ॥