संख्याता नाम संख्यानं यत्र व्यामोहकारणम् ।
अन्यथा भासते यत्र वाक्यार्थः सा प्रकल्पिता ॥ १०१ ॥

यत्र प्रहेलिकायां संख्यानमेकत्वादिकम् । व्यामोहस्यार्थतत्त्वाप्रतिपत्तेः 108b कारणं साक्षादनुक्तस्य विवक्षितस्यार्थस्य संख्यामुखेन समुन्नयनात्, संख्याता नाम सा भवेत् ॥

यत्र प्रहेलिकायां वाच्यस्य पदसमुदायस्यार्थोऽभिधेयमन्यथा अवस्थितः, अन्यथा तद्विपर्ययेणावभासते प्रतिभाति सा प्रहेलिका प्रकल्पिता नाम, अन्यथार्थकल्पनपरत्वादिति ॥