112a वर्तत इति सहया सगजा सभटेयं चेद् या न जिता नाक्रान्ता तदा नोऽस्माकं सुतः अमातृकः अजननीकः । अ[न]क्षरज्ञश्च मूढः स्यादिति [आपाततो]ऽयमर्थः । तत्त्वार्थस्तु हश्च यश्च ताभ्यां वर्णाभ्यां सह वर्तत इति । सह यो गश्च जश्च वर्णः, ताभ्यां सह सगजा । इश्च नश्च वर्णः । ताभ्यां युक्ता सेना, भकारटकाराभ्यां योगात् सभटा । एवंविधा च सिद्धा मातृका सा इयं चेन्न जिता सम्यगध्ययनयोगेन यदि न वशीकृता स्यात्, तदा अयं नः सुतः । न विद्यते मातृका वर्णसमाम्नायः । अनधीतत्वादस्येति अमातृकः अत एव शास्त्रापरिज्ञानात् मूढो मूर्खः हेयोपादेयज्ञानविकलः स्यात् । न क्षरति न नश्यतीत्यक्षरं वेदं जानातीत्यक्षरज्ञस्तु वेदमात्रपाठकस्तु स्यात् । न मातृकाध्ययनेनापि वेदपाठसम्भवात् । अक्षरज्ञश्चेत्यपि पाठः । तत्र मूर्खतया नश्वरपदार्थस्वभावापरिज्ञानादक्षरं सर्वं नित्यं जानीयादित्यक्षरज्ञश्च नित्यग्रहगुप्तश्च भवेत् ॥

कतरोऽयं संकर इति दर्शयति—

सा नामान्तरितामिश्रवञ्चितारूपयोगिनी ।
एवमेवेतरासामप्युन्नेयः संकरक्रमः ॥ १२४ ॥

सेयं प्रक्रान्ता प्रहेलिका तल्लक्षणयोगान्नामान्तरितया मिश्रेण संसृष्टेन वञ्चिताया रूपेण योगः सम्बन्धोऽस्यास्तीति नामान्तरितामिश्रवञ्चितारूपयोगिनी । मातृकेत्यस्मिन्नाम्नि सहयेत्यादिनानेकार्थकल्पनादमातृकाशब्देनाजननी, मूढेनानधीतसिद्धमातृकाप्रतीतिविप्रलम्भात्, अक्षरज्ञशब्देन च वर्णज्ञप्रसिद्धेन वेदवेदिन्यविनश्वरज्ञेवानिश्चयवञ्चनात् ।

संकरशेषमतिदिशन् प्रस्तावमिमं निगमयति— एवमेव यथोक्तसंकरानुसारेण इतरासामपि