241 इति तदपहस्तितम् । उपयोगवत्तया अवश्यवक्तव्यत्वात् प्रहेलिकानामलङ्कारवदिति ॥

लक्षणं तासां कुर्वन्नाह—

आहुः समागतां नाम गूढार्थां पदसन्धिना ।
वञ्चितान्यत्र रूढेन यत्र शब्देन वञ्चना ॥ ९८ ॥

पदयोः सुप्तिङन्तयोः सन्धिना पदघटनेन तादृशेन हेतुना गूढो दुर्बोधः [कृच्छ्रगम्यो]ऽर्थो विवक्षितमभिधेयं यस्या इति गूढार्थप्रहेलिकां समागतामाहुस्तद्विदः । गोपितार्थसमागतपदप्रधानत्वात् समागतेति तादृशी व्यवह्रियते यत्र प्रहेलिकायाम् अन्यत्र वा अर्थान्तरे ॥

रूढेन प्रसिद्धेनार्थान्तरप्रयुक्तेन शब्देन वाचकेन वञ्चना वञ्चनं वा । विवक्षिंताद् अर्थादन्यत्र बुद्ध्युत्पादात् विप्रलम्भो जायते यत्र सा तत्परत्वाद् वञ्चिता नाम विज्ञायते ॥

व्युत्क्रान्तातिव्यवहितप्रयोगान्मोहकारिणी ।
सा स्यात् प्रमुषिता यस्यां दुर्बोधार्था पदावली ॥ ९९ ॥

अतिव्यवहितानामत्यन्तविप्रकृष्टानाम् । यथा मोहो जायते । पदानां प्रयोगोऽभिधानमतिव्यवहितो वा । अतिव्यवहितः प्रयोगतः स्यात् । अत्यन्तव्यवहितपदयोजनाहेतोर्मोहः । सोऽर्थानिश्चयं विपरीतार्थप्रतिपत्तिं [च] करोति जनयतीति मोहकारिणी या सा व्यवहितपदप्रधानत्वाद् व्युत्क्रान्ता नाम प्रहेलिका वेदितव्या ॥

यस्याः प्रहेलिकायाः सम्बन्धिनी पदानामावली समुदायः दुर्बोधः कृच्छ्रगम्यः अर्थोऽभिधेयं यस्या इति दुर्बोधार्था सा प्रहेलिका अपहृतार्थत्वात् प्रमुषिंता नाम स्यात् ॥

समानरूपा गौणार्थारोपितैर्ग्रथिता पदैः ।
परुषा लक्षणास्तित्वमात्रव्युत्पादितश्रुतिः ॥ १०० ॥

या गौणार्था मुख्यादभिधेयादन्यस्मिन्नभिंधेये आरोपितैरव्याप्तैः पदैः शब्दैः ग्रथिता विरचिता सा तादृशार्थान्तरप्रतिपादनपरत्वात् समानरूपा नाम स्मर्यते ॥