ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम् ।
अबलाविरहक्लेशविक्लवो गणयत्ययम् ॥ १८३ ॥

ऐन्दवादिन्दोः सम्बन्धिनोऽर्चिषो रश्मेरप्यधिकशिशिरं शीतं हव्यवाहमग्निं गणयति । [कः ?] अधैर्योऽयं विवक्षितः कश्चित् कामी । [कथम् ?] अबलायाः प्रियाया विरहो दुःखं स एव वा क्लेशः । तेन विक्लवो विप्लुतः सन् । विरहविकारविप्लुतस्य हि तथा प्रतिभास इति न लोकविरोधः ॥