प्रमेयोऽप्यप्रमेयोऽसि सकलोऽप्यसि निष्कलः ।
एकस्त्वमप्यनेकोऽसि नमस्ते विश्वमूर्तये ॥ १८४ ॥

प्रमेयः परिच्छेद्योऽपि व्यक्तक्षित्यादिमूर्त्त्यपेक्षया अप्रमेयोऽसि अव्यक्तः परमरूपतः । प्रमेयोऽपि वा 122b अनुमानप्रमाणगम्यत्वादप्रमेयोऽसि [इन्द्रिया]विषयत्वात् । सकलः सावयवोऽपि [आ]रब्धक्षित्यादिमूर्तत्वात्, निष्कलो निरवयवः असि परमात्मरूपतः । एकोऽपि त्वं शाश्वतब्रह्मरूपेण, अनेकोऽसि परिणामवैचित्राद् इत्येवं विश्वमूर्तये सर्वमयाय [ते] तुभ्यं नमः । इतीदृशं न न्यायविरुद्धम्, एवंविधत्वाद् ब्रह्मणः परमस्येति ॥