पञ्चानां पाण्डुपुत्राणां पत्नी पञ्चालकन्यका ।
सतीनामग्रणीश्चासीद् दैवो हि विधिरीदृशः ॥ १८५ ॥

276 पञ्चानां यु[धि]ष्ठिरादीनां पाण्डोः पुत्राणां पत्नी पञ्चालकन्यका द्रौपदी बभूव । हन्त न तर्हि दृष्टपञ्चपुरुषा सा कुलस्त्री स्यादिति चेदाह— सतीनां पतिव्रतानां मध्ये अग्रणीः प्रधानभूता चासीत् । कथमेवम् ? दैवो देवसम्बन्धी हि विधिः प्रभाव ईदृशः एवंभूतो यदेवंविधमपि घटते । किमत्र क्रियताम् ? को हि दैवं विधानमप्रमाणयितुं शक्नोति । हिशब्देनेदमेव प्रसिद्धं द्योत्यते । ततश्च नागमविरोधः ।