अथ

प्रतिज्ञाहेतुदृष्टान्तहीनं दुष्टं च वर्ण्यते ।
समासेन यथान्यायं तन्मात्रार्थप्रतीतये ॥
136 इत्यादिना विस्तरेण प्रतिज्ञाहान्यादयो दोषाः काव्यलक्षणान्तरे दर्शिताः । ते किमिह नोच्यन्त इति चेदाह—

प्रतिज्ञाहेतुदृष्टान्तहानिर्दोषो न वेत्यसौ ।
विचारः कर्कशप्रायस्तेनालीढेन किं फलम् ॥ १२७ ॥

253 प्रतिज्ञा साध्यनिर्देशः, विधिरूपो निषेधलक्षणो वा । साध्यस्य सर्वस्य सदसत्त्वाभ्यां व्याप्तेः । स च प्रमाणान्तराव्याहतः । प्रमाणान्तरनिरस्तस्याहेतुगोचरत्वात् । यथोक्तम्—

सन्दिग्धे हेतुवचनाद् व्यस्तो हेतुरनाश्रयः ।
137 इति । तथा
हेतुभिस्त्राणमुपेतं नैव यो हतः ।
138 इत्यादिः । अन्यत्र तद्विस्तरः । हेतुः, तस्या एवंरूपायाः प्रतिज्ञाया साधनभूतोऽर्थः त्रिरूपोऽन्यो वा । तस्यापि तल्लक्षणशास्त्रे विस्तरः । दृष्टान्तः साध्यसाधनयोः सम्बन्धप्रतिपत्तिविषयभूतोऽर्थः कश्चित् । स च साधर्म्यदृष्टान्तो वैधर्म्यदृष्टान्तश्चेत्यादिना अन्यत्र निर्णीतः । तेषां त्रयाणां हानिर्यथा[क्रमं] प्रतिज्ञाहेतुदृष्टान्तहानिः । [द्वन्द्वात् परं श्रूयमाणस्य] प्रत्येकमभिसम्बन्धात् प्रतिज्ञाहानिः हेतुहानिः दृष्टान्तहानिश्चेति त्रिविधो भवति । तत्र प्रतिज्ञाहानिः- तयैव प्रतिज्ञया हेतुना सिद्धान्तेन सर्वागमैः प्रसिद्धधर्मतया प्रत्यक्षेण च बाधेत्यनेकधा । यथोक्तं भामहेन—
तदर्थहेतुसिद्धान्तसर्वागमविरोधिनी ।
113b प्रसिद्धधर्मा प्रत्यक्षबाधिनी चेति दुष्यति ॥
139 इति । हेतुहानिरसिद्धत्वादिलक्षणः । यथोक्तम्—
हेतुस्त्रिलक्षणो ज्ञेयो हेत्वाभासो विपर्ययात् ।
140 इति । तस्यान्यत्र विस्तरः । दृष्टान्तहानिः साध्यधर्मविरहादिरूपात् । तदुक्तम्—
साध्यसाधनधर्माभ्यां सिद्धो दृष्टान्त उच्यते ।
तद्विपर्ययतो वापि तदाभस्तदवृत्तितः ॥
141 254 इति । तद्विस्तरोऽप्यन्यत्रैव । सेयं त्रिविधा हानिः प्रत्येकमनेकशो नाना काव्येषु दोषः । वैगुण्यं वा दोषो वेति सदसत्पक्षविकल्पनम् । विचारोऽयं [वि]गृह्य परीक्षा[या] इह कथञ्चित् प्रस्तुतत्वेऽपि [मुख्यतस्तस्याः] तर्कशास्त्र[गोचर]त्वात् कर्कशप्रायः कर्कशभागः अतिगम्भीरत्वादिहानधिकाराच्च, प्रायो भूयान् यस्मिन्निति कृत्वा । तेन वा प्रायो बहुलः । प्रायेण भूम्ना वा कर्कशः कर्कशप्रायः । राजदन्तादिषु दर्शनात् पूर्वनिपातः । कर्कशप्रायः कठिनभूयिष्ठः अरञ्जक इति यावत् । इह च कोमलप्रायः काव्यप्रतिनियतः गुणदोषविषयो विचारोऽधिकृतः । तस्मात् तेन कर्कशप्रायेण विचारेण आलीढेन अनुष्ठानमुखेनादृतेन किं फलम् ? काव्यप्रतिनियतगुणदोषनिर्णयरूपं प्रयोजनं किमस्ति ? नैवेत्याशय । तथा चाह—

काव्यलक्षणे काव्यप्रतिनियता दोषा गुणाश्च विचार्यन्ते । न शास्त्रान्तरसाधारणा अपि, सर्वशास्त्रसमुच्चयप्रसङ्गात् । ततश्च अत्रैव सर्वगुणदोषव्युत्पत्तौ शास्त्रान्तराणि व्यर्थानि स्युः, तावन्मात्रफलत्वाद् विद्यास्थानानाम् । तत्रैतत्प्रतिनियतव्युत्पत्तेरन्यतः सिद्धेरिदमपि व्यर्थं स्यात्, सर्वत्र प्रतिनियमाभावात् । न चैवम्, गुणदोषव्युत्पत्तीनां प्रतिशास्त्रं नियमदर्शनात् । अथ काव्याङ्गत्वात् प्रतिज्ञाभेदादिकं विद्यान्तरमपि संक्षिप्तमिहाभिधानीयम् । तत् किं छन्दोविचित्यादिकं तत्र नाभिमतम् ? तस्यापि काव्याङ्गत्वेन निमित्तस्य समानत्वात् । न च यत्किञ्चिदिह दर्शितम् इत्येतावता शास्त्रान्तरे सम्यग्ज्ञानं सम्पद्यते, पुनस्तच्छास्त्रादेव यथावदवगमव्यपेक्षणात् ज्ञानानां [च] प्रतिशास्त्रं नियतत्वात् । ततस्तत एव तत्तज्ज्ञानमपेक्षणीयम् । यत् पुनः काव्यलक्षणस्यास्य प्रमाणलक्षणीकरणम्, तदाहोपुरुषिकामात्रमिति सूक्तमिदं तेनालीढेन किं फलमिति ॥

  1. काव्यालङ्कारे ५. १
  2. प्रमाणवार्त्तिके ४. ९१
  3. [
  4. काव्यालङ्कारे ५. १३
  5. काव्यालङ्कारे ५. २१
  6. काव्यालङ्कारे ५. २६