113b प्रसिद्धधर्मा प्रत्यक्षबाधिनी चेति दुष्यति ॥
हेतुस्त्रिलक्षणो ज्ञेयो हेत्वाभासो विपर्ययात् ।
140
इति । तस्यान्यत्र विस्तरः । दृष्टान्तहानिः साध्यधर्मविरहादिरूपात् । तदुक्तम्—
साध्यसाधनधर्माभ्यां सिद्धो दृष्टान्त उच्यते ।
तद्विपर्ययतो वापि तदाभस्तदवृत्तितः ॥