114a एषां यथोद्देशं सनिर्देशं सापवादं [विवरणं] कर्तुं प्रक्रमते—

समुदायार्थशून्यं यत् तदपार्थमितीष्यते ।
तन्मत्तोन्मत्तबालानामुक्तेरन्यत्र दुष्यति ॥ १२८ ॥

142समुदायस्य प्रकरणात् पदसम्बन्धिनो वाक्यस्य अर्थोऽभिधेयम् अङ्गाङ्गिभूतक्रियाकारकसम्बन्धविशेषलक्षणं सांव्यवहारिकम् । तेन शून्यं रहितम् । न पदार्थ255 मात्रेण, तस्य क्वचिदप्यव्यभिचारात् । दशदाडिमानि षडपूपा इत्यादावपि पदार्थप्रत्ययोदयात् । यत् इत्यनूद्य तत् समुदायार्थशून्यम् अपार्थम् । इह दोषप्रस्तावे । अपार्थमिति वा अपार्थं नाम इष्यते स्मर्यत इति विधिः । तदपार्थं दुष्यति काव्यदोषो भवति इत्युत्सर्गः । तस्यापवादमाह- मत्तेत्यादि । मत्ता मदिरामदादियोगात् । उन्मत्ता वायुक्षोभादिचित्तविक्षेपात् । बालाः हेयोपादेयज्ञानविकलाः अव्युत्पन्नाः तथा बालकल्पाः शक्तिविकला वृद्धा असंबद्धभाषिणः । तेषां तथाविधाया एवोक्तेरुचितत्वात् । सैव तेषां सूक्तिरिति । [अतः] तेषामुक्तेरन्यत्र सुभाषितविषये [तदिदमपार्थं] दुष्यति दुष्टं जायते ॥

  1. समुदायार्थ इत्यारभ्य श्लोकत्रितयटाकायां मातृकास्थक्रमः असंलग्न इति कृत्वा अर्थपर्यालोचनेन शोभनतरः क्रमः स्वीकृतः ॥