अत्राप्यपवादं व्युत्पादयन्नाह—

अनुकम्पाद्यतिशयो यदि कश्चिद् विवक्ष्यते ।
न दोषः पुनरुक्तोऽपि प्रत्युतेयमलंकृतिः ॥ १३७ ॥

अनुकम्पा अनुक्रोश आदिर्यस्य विस्मयहर्षादेस्तस्य तद्रूपो वा अतिशयो विशेषः अनुकम्पाद्यतिशयः, 115b नानुकम्पादिमात्रम् । कश्चिद् अन्यतमो यदि विवक्ष्यते प्रका[शयितुमि]ष्यते तदा पुनरुक्तोऽपि वाक्येऽर्थतः शब्दतोऽपि वा न दोषः । एकार्थलक्षणेऽभिहिते विकारो नास्ति । गुणोऽपि न तादृशः कश्चिदिति चेदाह—प्रत्युतेति । विशेषविवक्षायां निपातसमुदाय एको वा निपातः । यदाह—इयं पुनरुक्तिरलंकृतिः काव्यशोभाकरत्वाज्जायते तादृशि विषये इति ॥