निर्णयार्थं प्रयुक्तानि संशयं जनयन्ति चेत् ।
वचांसि दोष एवासौ ससंशय इति स्मृतः ॥ १३९ ॥

वचांसि शब्दाः प्रयुक्तानि प्रकाशितानि । किमर्थम् ? निर्णयार्थम् । निर्णयो निश्चयः, प्रकरणात् काव्यार्थविषयः संशयविपर्यासविरोधी प्रत्ययः । अर्थः प्रजोजनम्, साध्यत्वाद् यस्मिन् प्रयोगे इति क्रियाविशेषणम् । तच्च स्वभावतो नपुंसकम् द्वितीयैकवचनान्तं च स्मर्यते । न तु संशयार्थम्, तदानीं दोषात् । यद् वक्ष्यति—ईदृशं संशयाय ३. १४१ इत्यादि । संशयनिश्चयविपर्ययमर्थद्वयावगाहि ज्ञानं यदि जनयन्ति, असौ तादृशः संशय इति ससंशयो नाम दोष एव काव्ये । न गुणोऽपि तत्र विषये । अन्यत्र तु भवेत् । स्मृतो विज्ञायते ॥