पश्याम्यनङ्गजातङ्कलङ्घितां तामनिन्दिताम् ।
कालेनैव कठोरेण ग्रस्तां किं नस्त्वदाशया ॥ १४२ ॥

तां काञ्चिदिष्टाम् अनिन्दितां स्त्रियम् । अनङ्गात् कामात् जातः अनङ्गजः स च सा वा आतङ्कः पीडा । अङ्गात् शरीरात् जातः बाह्यभूतसंभूतत्वात् अनङ्गजः स च सा वा आतङ्क सन्तापश्चेतिं द्वैधम् । मदनेन लङ्घितामभिभूतां सतीं कालेन मृत्युनैव कठोरेण अस्थानप्रहारित्वात् । कालेनैव कठोरेण ग्रीष्मेण कालावर्षिकाग्रस्तां मृणालिकामिव कवलिताम्, पश्यामि अवैमि । नात्र सन्देहः इत्यपरं द्वैधम् । ततश्च त्वयि आशया अभिलाषेण नोऽस्माकं किं प्रयोजनम् ? न किञ्चित् । यदि सा अस्तिं तदथें त्वामभिलषामि किमिदानीं त्वयेति । किं नस्तदाशयेति पाठे—तत्र किमिंदानीं नः अस्माकं तस्यामाशया प्रत्याशया ? गता दूरमस्माकमसाविति व्याख्येयम् ॥