स्थितिनिर्माणसंहारहेतवो जगतामजाः ।
शम्भुनारायणाम्भोजयोनयः पालयन्तु वः ॥ १४५ ॥

जगतां लोकानां स्थितिः प्रबन्धानुवृत्तिः । निर्माणमुत्पादः । संहारो नाशस्तेषां हेतवः, तत्कर्तृत्वात् न जाता अकृतका इत्यजाः नित्याः । के ते ? शम्भुश्च शङ्करः, नारायणश्च विष्णुः । अम्भोजयोनिश्च ब्रह्मा । शम्भुनारायणाम्भोजयोनयः । वो युष्मान् पालयन्तु रक्षन्तु । अत्र जगतां स्थितिहेतुर्नारायणः, निर्माणहेतुरम्भोजयोनिः संहारहेतुः शम्भुरित्यागमात् न यथोद्देशमनुदेशः कृत इत्यपक्रमनामायं काव्यदोष इति ॥