बन्धुत्यागस्तनुत्यागो देशत्याग इति त्रिषु ।
आद्यन्तावायतक्लेशौ मध्यमः क्षणिकज्वरः ॥ १४७ ॥

बन्धूनां त्यागो विरहो विरहो बन्धुत्यागः । तनोः शरीरस्य त्यागो मरणम् । देशस्य आत्मीयस्य त्यागो देशत्याग इति त्रिषु एतेषु बन्धुत्यागादिषु दुःखेषु । आदिश्चान्तश्च इत्याद्यन्तौ 117a बन्धुत्यागदेशत्यागौ आयतौ दीर्घौ च तौ क्लेशौ संबाधौ । आयतो क्लेशो दुःखमनयोरित्यायतक्लेशौ यावज्जीवमनुबन्धात् । मध्यमस्तनुत्यागः क्षणिकः क्षणमात्रभावी चासौ ज्वरस्तापश्चेति क्षणिकज्वरः शरीराभावे नानुबन्धात् । अत्रायतक्लेशत्वं बन्धुत्यागदेशत्यागयोः । एवं न तनुत्यागस्य । क्षणिकज्वरत्वं च तनुत्यागस्यैव नेतरयोरिति यत्नसम्बन्धः । सम्बन्धनिर्ज्ञातहेतुरीदृशो द्रष्टव्यः । यदि पुनः त्रयाणामप्येकरूपत्वं तदा क्रमलङ्घनं दोष एव स्यात्, विशेषस्य तादृशस्याभावादिति ॥