इष्टमनुप्रासमुदाहरन्नाह—

39
इत्यनुप्रासमिच्छन्ति नातिदूरान्तरश्रुतिम् ।
न तु रामामुखाम्भोजसदृशश्चन्द्रमा इति ॥ ५८ ॥

इत्येवंरूपमनन्तरोक्तप्रकारं नातिदूरान्तरश्रुतिमनतिविप्रकृष्टव्यवधानश्रवणम् । यावता पूर्वानुभवसंस्कारप्रबोधः प्रभवति तावदन्तरश्रुतिमनुप्रासमिच्छन्ति । सामान्यवचनादुभयेऽपि । 23b नातिदूरमन्तरं यस्याः सा श्रुतिर्यस्येति ह्यन्यपदार्थः । कीदृशः पुनर्दूरान्तरश्रुतिर्नेष्यत इति तमपि हेयत्वेनोदाहरति—नात्वित्यादि । रामाणां स्त्रीणां मुखं वदनमेवाम्भोजं पद्मं तेन सदृशः समानश्चन्द्रमाः शशाङ्क इति योज्यम् । अत्र रामा इत्ययं मकारः मुखाम्भोजसदृशश्चन्द्रमा इति दूरमागम्यावृत्तः । ततोऽयं दूरान्तरश्रुतिरनुप्रासो व्यपदेशमात्रेण न तु ग्रहणतः । तमीदृशं नेच्छन्त्युभयेऽपि । वैदर्भा एकान्तेन नेच्छन्ति । गौड़ैस्तु तादृशोऽपीष्यत इति वा द्रष्टव्यम् ॥