अपरोऽप्यनुप्रासप्रकारोऽस्ति यः श्लेषसौकुमार्यादिशब्दालङ्कारविरोधी । तं गौड़ाः प्रयुञ्जते न वैदर्भा इति दर्शयन्नाह—

स्मरः खरः खलः कान्तः कायः कोपश्च नः कृशः ।
च्युतो मानोऽधिको रागो मोहो जातोऽसवो गताः ॥ ५९ ॥

स्मरः कामः खरो नृशंसः प्रमादित्वात् । कान्तः पतिश्च खलः प्रतिकूलवर्त्ती व्यलीकशीलत्वात् । कायः शरीरम् कृशः क्षीणः विरहदौर्बल्यात् । कोपश्च कान्तविषयः कृशो निवृत्तः । मानश्च तद्विषयः किं तेनेति चेतोवष्टम्भलक्षणश्च्यतो गलितः रागाद्यभिभूतत्वात् । यदाह रागोऽधिक इति । रागोऽभिषङ्गः पतिविषयः अधिकः प्रबलो वर्त्तते । ततश्च मोहो मूर्च्छा जातः प्रवृत्तः रागपक्षत्वात् । तदुक्तम्—

तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् ।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥ इति ।
57

असवः प्राणा गता दशमी दशा जातास्माकमिति काचित् विरहिणी विरौतीत्यर्थो योजनीयः ॥

  1. कुमारसम्भवे ३. ७३