भगिनीत्यादेः का गतिरित्याह—

भगिनीभ26a गवत्यादि सर्वत्रैवानुमन्यते ।
विभक्तमिति माधुर्यमुच्यते सुकुमारता ॥ ६८ ॥

भगिनी भगवती सुभगा दुर्भगेत्यादि सर्वत्रैव शास्त्रे काव्ये लोके चानुमन्यते आद्रियते । ततस्तादृशमग्राम्यं सभ्यमेव । ततश्च प्रयुज्यते एव कविभिः ॥

माधुर्यं निगमयन्नाह—विभक्तमित्यादि । इत्यनेन प्रकारेण माधुर्यं विभक्तं निर्दिष्टम् । सुकुमारतेदानीमुच्यते निर्दिश्यते तदनन्तरमुपदिष्टत्वादिति ॥