प्रतिविशिष्टस्यानेकस्य काव्यधर्मस्याभावेऽपि सौकुमार्यगुणादीदृशं काव्यमुपादेयमिति सौकुमार्यं वर्णयन्नाह—

इत्यनूर्जित एवार्थो नालङ्कारोऽपि तादृशः ।
सुकुमारतयैवैतदारोहति सतां सुखम् ॥ ७१ ॥

इत्ययमेवंविधोऽर्थः अभिधेयशरीरम् । ऊर्जितो दीप्तः प्रतिविशिष्टः । न तथाऽनूर्जित एव नोर्जितोऽपि । अलंकारस्तर्हि प्रतिविशिष्टस्तेनेदमादेयं काव्यं न सौकुमार्यगुणादिति चेदाह—नालंकारोऽपि तादृश इति । अलंकारोऽप्यत्र स्वभावोक्तिलक्षणः तादृशस्तथाभूतः प्रतिविशिष्टो न भवति यादृशोऽ[न्य]त्र । स च विभावनादिः । न केवलमर्थ इत्यपिशब्दार्थः । कोऽत्रार्थस्यालङ्कारस्य च भेदः येनोच्यतेऽलंकारोऽर्थश्चानूर्जित इति । य एवार्थः स एवालंकाराऽस्मिन् गम्यते । नैतदेवम् । अर्थो हि धर्मी, स्वभावोक्तिश्चालंकारो धर्मः प्रतीयत इति महान् भेदः, धर्मधर्मिभेदस्य सुप्रसिद्धत्वात् । अन्यत्राप्येवंविधोऽत्र भेदः । तथापि एतदिदमीदृशं काव्यं सुकुमारतयैव सौकुमार्येण केवलेन शब्दालंकारेण पुरस्कृतं सतां विदग्धानां मुखम् आननम् आरोहति गोचरीकरोति सुकुमारमित्येवेदृशं कविभिरुपादीयत इति यावत् । यदि पुनरर्थ ऊजिताऽलंकारश्च, सुतरां सुकुमारं काव्यं रमणीयमित्याकूतम् ॥

हंसा भ्रमन्ति पद्मानां कानने मदम27a न्थराः ।
मञ्जु[भिर्]ध्वनिभिः कर्णैश्चरणैर्वर्णविभ्रमैः ॥
इत्यपरमुदाहरणमिति ॥