47 नेयं सर्वैरेव नेष्यत इति दर्शयन्नाह—

नेदृशं बहु मन्यन्ते मार्गयोरुमयोरपि ।
न हि प्रतीतिः सुलभा शब्दन्यायविलङ्घिनी ॥ ७५ ॥

ईदृशमनन्तरोक्तप्रकारं नेयमुभयोरपि वैदर्भगौडीययोर्मार्गयोर्वर्त्मनोः । न वैदर्भ एव । न बहु मन्यन्ते नाद्रियन्ते न प्रयुज्यन्ते तद्विदः ।

तच्च एषां विपर्ययः प्रायो लक्ष्यते गौडवर्त्मनि ।64 इति प्रायोग्रहणेन संगृहीतं किं बहु मन्यत इति चे28b दाह—न हीत्यादि । हिशब्दो यस्मादर्थे । यतः प्रतीतिरर्थस्यावगमः शब्दं वाचकं न्यायसामर्थ्यं च तादृशमनुपदर्शनाल्लङ्घयति त्यजत्यनुपादा[ना]दिति, शब्दन्यायविंलङ्घिनी न सुलभा न प्राप्यते कस्यचिद् विंवक्षामात्रेण तादृशेन । तस्मान्नेच्छन्ति मूलहानेः । न्यायोपात्तः शब्दोपात्तो वा योऽर्थो न भवति स न प्रतीयतेऽन्तस्तत्त्वमात्रेणेत्यर्थः । तस्मात् शब्दादर्थाद्वा प्रतीतार्थमनेयं तद्विपरीतं तु नेयमिति स्थितम् ॥

  1. १. ४२