कीदृशं तदित्युदाहरति—

पयोधरतटोत्सङ्गलग्नसन्ध्यातपांशुका ।
कस्य कामातुरं चेतो वारुणी न करिष्यति ॥ ८४ ॥

वारुणी दिगपरा । किंभूता ? पयोधरो मेघः स्तनश्च । शब्दश्लेषोऽयम् । तस्य तटः एकदेशः स एवोत्सङ्गो मध्यभागः । तत्र लग्नः स्थितः सन्ध्यातपः । दिनपरिणतिः स एवांशुकं रक्तं वस्त्रं यस्याः सा तथाभूता कस्य नाम कामिनश्चेतश्चित्तं कामातुरं मन्मथाक्रान्तं न करिष्यति ? सर्वस्यैव करोति रागानुकूलत्वात्तस्या अवस्थायाः । तादृशमनाकुलं हृद्यमोजः प्रयुञ्जते वैदर्भाः ।

51

सलीलहसितज्योत्स्नाकीलिताधरपल्लवः ।
मुखं मृगदृशां कस्य हृदयं न हरिष्यति ॥
धाविता अपि ते दन्ताः श्यामा मुग्धे मुधा श्रमः ।
मुखाब्जसौरभाकृष्टप्रतिबिम्बितषट्पदाः ॥
विदग्धमधुरस्निग्धमुग्धसम्भ्रान्तलोचनम् ।
ललितभ्रूलतोल्लासहासहारि मुखं तव ॥
इत्यपरमुदाहरणत्रयम् ॥