शास्त्रमेव प्रकारान्तरेणानुसंहरन्नाह—

आदिराजयशोबिम्बमादर्शं प्राप्य वाड्मयम् ।
तेषामसन्निधानेऽपि न स्वयं पश्य नश्यति ॥५ ॥

आदयः आद्याः पूर्वे राजानः मन्वा[द्याः] तेषामादिराजानां [गुणख्यापकं कर्म] यशस्करत्वाद् यश इत्युक्तम् । गुणा हि साक्षात् तेषां शास्त्रे काव्ये वा वर्ण्यन्ते । गुणानां तु प्रसिद्धिः सर्वलोककीर्त्तनं यशः । तदेव [श]रीरं सत्पुरुषाणां........., शरीरप्र[तिमत्वात् । त]दुक्तम्—

अपि स्वदेहात् किमुतेन्द्रियार्थाद्
यशोधनानां हि यशो गरीयः । इति ।6

तदेतत् । वागिह इतिहासकथादिलक्षणा, आदिरा[जयशः]कीर्त्तनात् । तत्स्वभावमादर्शं दर्पणम् वैमल्यात्, प्राप्य तत्र प्रतिभाय तत्प्रत्ययारूढं स्वयमात्मना न नश्यति नापगच्छति यस्येति विस्मापयन्नभिमुखयति परम् । कोऽत्र विस्मय इ[ति चेत् ?] तेषामसन्निधानेऽपीति तेषामादिराजानां येषां तद्बिम्बम् । असन्निधानेऽपि अभावेऽपि । इदमत्र चित्रं यत् तद्वतोऽपगमेऽपि बिम्बं नापैति । दर्पणे हि तावद् बिम्बं दृश्यते [यावद् वस्तुस]न्निधानम् । अपगते तु तद्वति शरीरेऽपैति । सोऽयं प्रसिद्धादर्शविलक्षणोऽपूर्व एव कश्चिदादर्शः, यत्रादिराजलक्षणस्य तद्वतोऽसन्निधावपि इदानीम्[अपि] बिम्बं दृश्यते, न केवलं सन्निधान इत्यपिशब्दार्थः । अतिशये वाऽपिशब्दो वर्तते । असन्निधानेऽप्यहो दृश्यत इत्यतिशयः । अत एव सर्वा[तिशायी] सनातनः कोऽप्ययमालोको लोकयात्राप्रवृत्तये । कुतोऽप्ययमाभाति यदुत शास्त्रं नामेति ॥

  1. रघुवंशे १४.३५