54 किं तर्हीदमुच्यत इति आह—

इदमत्युक्तिरित्युक्तमेतद्गौडोपलालितम् ।
प्रस्थानं प्राक्प्रणोतं तु सारमन्यस्य वर्त्मनः ॥ ९२ ॥

इदमीदृशमनन्तरोक्तं काव्यमत्युक्तिरित्युक्तमाख्यायते तज्ज्ञैरिति अत्युक्तिर्नामेदमित्यर्थः । एतदिदमनन्तरोक्तं गौडैः पौरस्त्यैरुपलालितमिष्टमत्यन्तं न वैदर्भसंमतमित्याह—प्रस्थानमित्यादि । प्राक्प्रणीतं पूर्वमुदाहृतं गृहाणि नामेत्यादि प्रस्थानं प्रकारः सारं जीवितमन्यस्य वैदर्भस्य वर्त्मनो मार्गस्य । तादृशं दाक्षिणात्यैः प्रयु[ज्य]त इति यावत् ॥