55 कश्चिद्धर्मः गौणविषय एव शोभते काव्ये न मुख्यगोचर इति दशयन्नाह—

निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् ।
अतिसुन्दरमन्यत्तु ग्राम्यकक्षां विगाहते ॥ ९५ ॥

निष्ठ्यूतं वान्तम्, उद्गीर्णं च । आदिशब्देन रिक्तादिपरिग्रहः । तदीदृशं वचनं गौणी प्रधा33b नेतरा निरूढ़विषयाद्विषयान्तरपरिग्रहलक्षणवृत्तिप्रयोगरूपा व्यपाश्रयो यस्य तत्तथा । गौणमिति यावत् । अतिसुन्दरमत्यन्तमनोहरमलंकाररूपत्वात् । अन्यत्तु इतरत् पुनः गौणवृत्त्यव्यपाश्रयात् मुख्यमिति यावत् । ग्राम्यकक्षाम् असभ्यपदवीं विगाहते प्रतिपद्यते । ग्राम्यमहृद्यमिति काव्ये तदुक्तेरनुचितत्वादिति भावः ॥