57 तदेवं प्रस्फुटान्तरत्वं मार्गयोर्यथाप्रतिज्ञातं प्रसाध्य निगमयन्नाह—

इति मार्गद्वयं भिन्नं तत्स्वरूपनिरूपणात् ।
तद्भेदास्तु न शक्यन्ते वक्तुं प्रतिकवि स्थिताः ॥ १०१ ॥

इति यथोक्तेन प्रकारेण मार्गद्वयं वैदर्भो गौडीयश्च मार्गः भिन्नं प्रस्फुटान्तरम । कुतः ? तस्य मार्गद्वयस्य स्वरूपम् अविपरीतस्वभावः, श्लेषादिस्वरूपं विदर्भमार्गस्य तद्विपर्ययस्वरूपं गौडीयस्य । तस्य निरूपणात् विवेचनात् यथाविहिताद् हेतोः । यदि मार्गद्वयं विविच्यते यथावत् ततो लभ्यते परिस्फुटमन्तरम् । ये तु न विजानन्ति तैरेकीकृतमेतत् । ततश्चाभेदोऽत्र समारोपितः । भेदस्तु वास्तव इत्याकूतम् । यथोक्तं प्राक् । कियन्तस्तर्हि प्रभेदा वैदर्भमार्गस्य कियन्तो वा 35a गौडीयस्य यतः परिस्फुटमन्तरं भेदसामान्यप्रविशेषमिदं तदिति गम्यत इत्याह—तद्भेदास्त्वित्यादि । तुशब्दोऽर्थान्तरविवक्षायाम् । तस्य मार्गद्वयस्य भेदा अवान्तराः प्रकाराः । यथोक्तसामान्यलक्षणन्यस्ता अनन्ताः गवाश्वप्रभेदवत्, किमाश्रयाः ? प्रतिकवि स्थिताः कविं कविं प्रति प्रतिकवि । ये केचिदिह कवयः सम्भवन्ति मार्गद्वयानुसारिणस्ते तदाश्रया इतस्ततो व्यवस्थिताः । न तु क्वचिदेकत्र परिसंख्यातास्तिष्ठन्ति । तस्मात् वक्तुं साकल्येन विवरीतुं न शक्यन्ते आनन्त्यादिति भावः ॥