यदि तावत्सन्ति किं न वक्तुं शक्यन्ते ? वक्तुमशक्यास्तु न सन्त्येव ते । ततश्च यथोक्तमपि भेदसामान्यमसदिव ।

निर्विशेषं च सामान्यं भवेच्छशविषाणवत् । इत्येव शङ्कानैकान्तिकमेतत् । सतोऽपि कथञ्चिद् वक्तुमशक्यस्य दर्शनादिति प्रतिपादयन्नाह—

इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।
तथापि न तदाख्यातुं सरस्वत्यापि शक्यते ॥ १०२ ॥

इक्षुक्षीरगुडद्राक्षादीनां मधुरद्रव्याणां माधुर्यस्य सामान्यधर्मस्य प्रतिद्रव्यं विशेषात्मना अन्तरं भेदो महत् परिस्फुटम् । तथापि तदन्तरं सरस्वत्यापि वागधिदेवतयापि आख्यातुं वक्तुं विभागेनास्येदृशं माधुर्यमस्येदृशमिति न शक्यते । प्रागेवान्येन । केवलमनुभवगम्यं तत् । सामान्यशब्देन मधुरमिति तु व्यपदिश्यते । यद्यपीक्षो58 रन्यादृशं माधुर्यं क्षीरस्यान्यादृशमित्यादि कथ्यते तथापि न तथा शब्दाद् गम्यते यथानुभूयते परिस्फुटं तदन्तरम् । न चैतावता तदसदेवानुभव35b सिद्धस्य दुरपह्न[व]त्वात् । तथा मालतीमल्लिकाचम्पकपाटलादीनां सौरभ्यस्य महदन्तरं तथापि न तत्तथा वक्तुं शक्यते, यथानुभूयते । तथाविधा हि वाचिका शक्तिः सामान्यैकता नाम । को नु पर्यनुयुज्यताम् ? यथोक्तमाचार्यधर्मकीर्तिना सकलविद्वज्जनचूडामणिना—

तद्रूपं सर्वतो भिन्नं तथा तत्प्रतिपादिका ।
न श्रुतिः कल्पना [वा]स्ति सामान्येनैव वृत्तितः । इति ॥
66

यथा सुरभिकुसु[मान्तर्भूतं] पारिजातं स्यात् । यदुक्तं सरस्वत्यापि च वक्तुं न शक्यत इति, [तत् साधु,] तयापि वाचकशब्दशक्तेरन्यथा कर्तृमशक्यत्वात् । तदेवं मार्गद्वयस्य प्रभेदाः यद्यपि प्रतिकवि स्थिता विद्यन्ते वस्तुतस्तथापि वक्तुमान[न्त्या]त्...... अतिप्रसङ्गाच्च न शक्यन्ते विशेषेण प्रत्येकम् । नैतावता न सन्त्येव । सामान्येन तु मार्गद्वयस्य वैलक्षण्यं दर्शितमेव व्यक्तम् । प्रतिव्यक्ति तु वक्तुं को नाम शक्नुयात् । सर्वत्रैव लक्षणशास्त्रे सर्वभेदव्यापि सामान्यलक्षणमुच्यते । न तु तद्भेदाः परिसंख्यायन्ते । अत्रापि सैव व्यवस्था काव्यलक्षणशास्त्रत्वादस्य । न तु यथोक्तं सामान्यं भेदलक्षणपरिस्फुटाभमनुसरद्भिरभियुक्तैस्ते भेदा मार्गद्वयसंभविनो विवेचयितुं शक्यन्ते । यथेदृशं नीलमीदृशं पीतमिति व्युत्पादिते36a न भेदलक्षणेन व्यक्तमुभयसम्भविनः प्रतिभेदा यथादर्शनं विभज्यन्ते इत्यलं विस्तरेण ॥

  1. प्रमाणवर्त्तिके ३.९०