सेयं काव्यलक्षणप्रयोजनस्वभावा काव्यगुणदोषविवेकरूपा व्युत्पत्तिर्यामभिसन्धाय क्रियाविधिं निबबन्धुः सूरयः, तस्य किं प्रयोजनमितीदानीमवसरं प्राप्य प्रयोजनं वर्ण्यन्नाह—

नैसर्गिकी च प्रतिभा श्रुतं च बहु निर्मलम् ।
अमन्दश्चाभियोगोऽस्याः कारणं काव्यसम्पदः ॥ १०३ ॥

नैसर्गिकी स्वाभाविकी जन्मान्तराभ्यास[स]म्भविनी । सहजेति यावत् । प्रतिभा हेयोपादेयपरिच्छेदलक्षणा । सा च प्रकरणात् काव्यविषया । सहजा शक्तिरियम् । उत्पाद्यां दर्शयन्नाह—श्रुतं चेत्यादि । श्रुतं काव्याङ्गविद्याश्रवणं श्रुतमयं तच्च59 व्याकरणक्रियाकल्पछन्दोविचित्याद्यनेकविद्याविषयत्वात्, अनेकशः प्रवृत्तत्वाच्च बहु पर्याप्तं निर्मलं परिशुद्धम्, आम्नायविशुद्ध्या सन्देहविपर्यासविरहात् । एवं श्रुतमयं ज्ञानं परिपूर्णमभिधाय चिन्तामयं भावनामयं च दर्शयन्नाह—अमन्दश्चाभियोग इति । श्रुतस्य चिन्तनमूहापोहमुखेन यथाम्नायमविपरीतार्थनिश्चयनम् । निश्चितस्य च भावनमभ्यासः आवृत्तिः स्थिरीकरणमिति द्विविधोऽभियोगः अभ्यासः । स चामन्दः पर्याप्तः यावद्भावितत्वात् । तदेतत्त्रयरूपा काव्यविषया व्यु[त्प]36b त्तिः । एवं हि काव्यं व्युत्पन्नं भवति यदि तदङ्गं विद्यास्थानं श्रुतं चिन्तितं भावितं च यथावद् भवेत् । अन्यथा कीदृशी काव्यव्युत्पत्तिः सर्वत्रोपायव्युत्पत्तिलक्षणत्वादुपेयव्युत्पत्तेः । [तदृते चो]पेयव्युत्पत्तिरसूत्रपटात् न हीयते । अभिमानमात्रं तु विजृम्भताम् । कस्तस्य निषेद्धा ? तदेवंविधाः काव्यव्युत्पत्तिः कारणं काव्यसम्पदः काव्यरचनाया निरवद्यायाः हेतुः । अस्याः प्रस्तुताया यदर्था काव्यव्युत्पत्तिः । परकीयकाव्यपरिज्ञानं तु सुलभमेवेदृशीं काव्यव्युत्पत्तिमाश्रितवता । ततश्च कीर्तिलाभः सत्कारः अन्यो वा पुरुषार्थ इति गम्यत एव । वक्ष्यति च कीर्तिमीप्सुभिः67 इति ॥

  1. १. १०५