तदपि न ज्ञायते किं वृत्तं जाति[र्वा कीदृशी]ति । तदाह—

छन्दोविचित्यां सकलस्तत्प्रपञ्चो निदर्शितः ।
सा विद्या नौर्विविक्षूणां गम्भीरं काव्यसागरम् ॥ १२ ॥

तयोर्वृत्तजा[त्योः प्रपञ्चो] विचित्रः प्रभेदः वक्त्रादिरूपः, आर्यादिलक्षणश्च सकलः सर्वो निदर्शितः लक्षणतो लक्षितश्च प्रतिपादितः । कुत्र छन्दो[विचित्यां छन्दांसि] विचीयन्ते [संगृह्यन्ते यत्र] यया वा तस्याम् । सा चेयं विद्या पद्यलक्षणस्य काव्यशरीरस्य साधिका । यदन[या] प्रसाध्यते ततः साप्यादरेण द्रष्टव्येति वक्रोक्त्या तदभ्यासे श्रोतृजनं नियोज[यति- सा विद्येति] काव्यमे[व सागरः तद्वद्]गम्भीरं यतः, 9 भावार्थगाम्भीर्यात् । न तु शब्दगाम्भीर्येण । अन्यथा प्रमादो न स्यात् । नानारसामृतत्वात् । सूक्तरत्नाकरत्वात् । अकृतधियां च [वैरस्याधायकत्वात्] काव्यसागरं वि[विक्षूणां अवगा]हितुमिच्छतां स्वयं कर्तुं परकीयं वा ज्ञातुमिच्छतामित्यर्थः । सा छन्दोविचितिविद्या नौरूपा । सापि ज्ञातव्येति भावः ॥