संघाताद्यपि वृत्तजातिप्रकारोऽस्ति छन्दःशास्त्रोक्तः 7b [स इ]ह किं न दर्शित इति चेत्, आह—

मुक्तकं कुलकं कोशः संघात इति तादृशः ।
सर्गबन्धांशरूपत्वादनुक्तः पद्यविस्तरः ॥ १३ ॥

एकः श्लोकः समाप्तार्थः स्वतन्त्रः श्लोकान्तरनिरपेक्ष इति मुक्तकम्, न तु निबद्धमिति सर्गबन्धेन [वैषम्यं] बन्धेऽनिबन्धनात् । यद् वक्ष्यति—सर्गबन्धांशरूपत्वात्9 इति ।

एकक्रियाद्वारेण परस्परसापेक्षाः समाप्तार्थाः प्रत्येकमसमाप्तार्थाः श्लोकाः कुलकम् । तद्विशेष एव युगलकम् । नानाभित्तयो भिन्नक्रियाः स्वतन्त्राः श्लोकाः कोशवत् स्था[पिताः कोशः] । एकां भित्तिं प्रावृडादिकां वर्णयितुं समुदायेन प्रवृत्ता भिन्नक्रियाः श्लोकाः संघातः । इति तादृशः । इत्येवंरूपश्चतुर्विधपद्यप्रकारोऽनुक्तो [विशिष्य] पृथगिह ल[क्षणतः अनुक्तः अकथित]स्त्यक्त एव । किं कारणम् । सर्गबन्धांशरूपत्वात् सर्गबन्धस्य अंशरूपा, एकदेशस्वभावास्तेषां भावस्तत्त्वम् । तस्मात् ते हि सं[गृहीताः । न] मुक्तता[दिव्यति]रेकेण सर्गबन्धः से[त्स्य]ति, तन्तुव्यतिरेकेण पटवत् । स च लक्षणत उच्यत एव । ततस्तेऽपि तदव्यतिरेका[त्] पृथगसर्गब[न्धरूप]तो नोक्ता इत्यर्थः ।

नन्वेवं स्तोत्रावदानपरिकथादिपद्यप्रपञ्चो न संगृहीतः स्यात् । संगृहीत एव । [उक्त]लक्षणयोगात्......[सं]घातः आर्या कोश इति संघातादिसंज्ञाप्रवृत्तिमात्रेण संघातादित्वं सर्गबन्धांशस्य संघातादेरत[स्तद्रूप]त्वं स्तोत्रादीनां...... । नहि सर्गबन्धस्य शिशुपालवधादिनामान्तरकरणमात्रेण सर्गबन्धत्वं हीयते । तस्मात् स्त्तोत्रादिरपि लक्षण[तः संघा]तादिसंगृहीतः ...नहि कर्कादिव्यपदेशान्तरयोगादश्वत्वं हीयते, अश्वविशेषाः कर्कादय इति चेत्-स्तोत्रादयोऽपि यथालक्ष[णं]......निमित्तं(?) यथे[ह सर्ग]बन्धे च संघातादिः परिम्फुटं लक्ष्यत एव । तत्र हि प्रावृड्वर्णनादिः10 संघातः । मन्त्राद्यवसरे च यथा[मुक्तकादिस्तथो]क्तं प्राक् । मुक्तकं......[इत्य8a]त्र परिस्फुटमेवेत्यलं विस्तरेण ॥

  1. १.१३