किमाश्रयं तदित्याह—

इतिहासकथोद्भूतमितरद्वा सदाश्रयम् ।
चतुवर्गफलायत्तं चतुरोदात्तनायकम् ॥ १५ ॥

इतिहासः पुरावृत्तम्, तत्प्रतिपादिका कथा रामायणादिका इतिहासकथा तत उद्भूतं जातम्, इतिहासकथाश्रयमित्यर्थः । का[व्यमि]ति वक्ष्यति । किमितिहासकथाश्रयमेव महाकाव्यं कर्तव्यम् । नेत्याह-इतरदिति । इतिहासकथाश्रयादपरं वा । नात्र नियमः, विशिष्टाश्रयमेव तु तत् कर्तव्यमिति- सदाश्रयमिति । सन् शोभनः अधिगुणराजचरितादिलक्षणा आश्रयो भित्तिर्यस्य तत्तथा । अनेन महाकाव्यस्य द्विधाश्रयसम्पदुक्ता ।

चतुर्विषयत्वं प्रतिपादयन्नाह—चतुर्वर्गफलायत्तम् चतुर्णां धर्मार्थकाममोक्षाणां वर्गः समूहः, स एव फलं पुरुषार्थत्पत्वात् । तत्राऽभ्युदयनिःश्रेयसहेतुर्धर्म12 । विद्याभूम्यादीनां यथान्यायमर्जनमर्जितानां च रक्षणमर्थः । निरपायो विषयोपभोगः कामः । [त्रैकालिक]सांसारिकदुःखनिवृत्तिर्मोक्षः । विस्तरस्तु त[त्त]च्छास्त्रेभ्यो द्रष्टव्यः । तस्मिन्नायत्तं प्रतिबद्धं तद्विषयत्वात् । अत्र न नियमोऽवश्यं चत्वारोऽपि पुरुषार्था निबध्यन्त इति । यथासंभवं क्वचिच्चतुर्वर्गः, [क्वचि]त् त्रिवर्ग इति 12 प्रतिपत्तव्यम् । एतच्च स्वयमेव वक्ष्यति—न्यूनमप्यत्र यैः कैश्चित्13 इत्यादौ । चतुरोदात्तनायकम् । चतुरः कुशलः उत्याहशक्त्यादियोगात् । उदात्त उदारस्त्यागातिशयादिसंबन्धात् नायकः विपक्षः प्रतिपक्षश्च14 । द्वयोरपि नायकत्वात्, यस्मिन् तत् तथा ॥

  1. तुल वै॰ सू॰ १. १. २.

  2. १.२०
  3. प्रतिपक्षो विजिगीषुरित्यर्थः ।