पुनः किं विशिष्टमित्याह—

नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनैः ।
उद्यानसलिलक्रीडामधुपानरतोत्सवैः ॥ १६ ॥

चन्द्रश्चार्कश्च तयोरुदयः । नगरं च अर्णवश्च शैलश्च ऋतुश्च चन्द्रार्कोदयश्चेति चार्थं कृत्वा तेषां वर्णनानि गुणोद्भावनानि इति षष्ठीसमासः । तानि च यथासम्भवमादौ मध्येऽन्ते वा । न चानुक्रमनिय[मेन] एतानि निबध्यन्त इति एवंपरमेतत् । तैरलंकृतमिति15 वक्ष्यति । उद्यानं सलिलं च तयोः क्रीडा विहारः । सा च मधुपानकं च रतोत्सवश्चेति चार्थः । रतमेवोत्सवः प्रीतिविशेषः, तेषां तु क्रमो दृश्यते । अनेन सम्भोगात्मकः श्रृङ्गार उक्तः । तैरलंकृतम् ॥

  1. १.१८