सर्वत्र भिन्नवृत्तान्तैरुपेतं लोकरञ्जनम् ।
काव्यं कल्पान्तरस्थायि जायते सदलंकृति ॥ १९ ॥

भिन्नः प्रकृतवृत्तापेक्षया अन्यवृत्तलक्षणः सर्गाणामन्तोऽवसानं येषाम् । किं क्वचिदेव सर्गे नेत्याह-सर्वेषु सर्गेषु । सर्गाः प्रस्तुतपद्यापेक्षया वृत्तान्तरैः समापनीया इत्यर्थः । तै रेवंरूपैः सर्गैरुपेतं युक्तम् । सदलंकृति सत्यः शोभनाः सुप्रयुक्तत्वात् । नत्वलंकृतयः स्वरूपेण शोभना नाम । अलंकृतयः शब्दार्थालंकाराः यस्य यस्मिन् वा तत् तथा । सत्यो वा विद्यमाना अलंकृतयो यस्य तदेवंविधं काव्यं लोकरञ्जनं जायते । लोकं रञ्जयति गुणसंपदा परितोषयति इति लोकरञ्जनम् । ततश्च प्रतिग्राहकभूयस्त्वात् कल्पान्तरं तिष्ठन्तीति कल्पान्तरस्थायि.........[जा]यते भवति प्रवचनवत् यावज्जगत् प्रवर्तत इत्यर्थः ॥