ननु सर्वत्र महाकाव्ये चतुर्वर्गादीन्यङ्गानि यथोक्तानि न दृश्यन्ते । कानिचिदेव क्वचिद् [दृश्यन्ते] । तन्न किञ्चिदिदानीं महाकाव्यं स्यादित्याह—

14
न्यूनमप्यत्र यैः कैश्चिदङ्गेः काव्यं न वर्ज्यते ।
यद्युपात्तेषु सम्पत्तिराराधयति तद्विदः ॥ २० ॥

अत्रोक्तेष्वङ्गेषु अवयवेषु यैः कैश्चिद् यथासम्भवं तु मधुपानकुमारोदयपर्वतवर्णनादिभिर्न्यूनं रहित[म]पि, न के[व]लं पूर्णं काव्यं, महाकाव्यं न वर्ज्यते सद्भिरुपादीयत इत्यर्थः । न दुष्यतीत्यपि पाठः । अस्तु स एव । अस्योत्सर्गस्यापवादमाहयदीत्यादि । उपात्तेषु [गृहीते]षु सम्पत्तिर्विभूतिः शब्दार्थसाद्गुण्यलक्षणा । तद्विदः तां काव्यसम्पत्तिं ये विदन्ति तान् पुरुषान् आराधयति रञ्जयति यदि, तदा नवर्ज्यते । अर्थोपात्तान्यङ्गानि । यद् वि[गतार्थं] तद् हेयमित्यर्थाद् गम्यते ।