किं तर्हि न युक्तमिति स्वमतमाह—

अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात् ।
अन्यो वक्ता स्वयं वेति कीदृग् वा भेदकारणम् ॥ २५ ॥

किं त्विदमत्र ब्रूमः । यः परेण नियमः कृतः आख्यायिका नायकेनैव वाच्येति, स नास्ति । यतस्तत्राख्यायिकायामपि न केवलं कथायाम्, अनियमः नायकेनैव वाच्येत्यस्य नियमस्याभावो दृष्टः उपलब्धः कृतः । अन्यैरुदीरणात् नायकादन्यैरपि तदनुचरादिभिराख्यायिकाया उदीरणात् वचनात् । हर्षचरितादिकायामाख्यायिकायामन्यैरपि नायकचरितकथनदर्शनादिति मन्यते । सर्वथा कविरिह वक्ता, तन्मुखेन नायको वा, स्वातन्त्र्यमत्र कवेः । ननु भामहेन कथायाः परोदीरणमिष्टं, यदाह—अन्यैः स्वचरितं तस्य नायकेन तु नोदितम् ।26 इति । तत्र किमुच्यते कथा नायकेनेतरेण वा वाच्येति । अनुक्तोपालम्भोऽयम् । एतदेव सिद्धं कथायामप्यनियमदर्शनात् उक्तेन न्यायेनोभयथाप्यदोषात् । भवतु वायं नियमः आख्यायिका नायकेनोच्यते कथा त्वन्येनेति । तथापि नैतावता आख्यायिकाकथयोर्भिन्नजातीयत्वमिति परमतमभ्युपगम्यापि तयोरभेदमन्यतः कथयन्नाह—अन्यो वक्तेत्यादि । कथायामन्यो वक्ता, आख्यायिकायां स्वयमिति कीदृक् किं नामेदं तयोर्भेदस्य वि11b जातीयत्वस्य कारणं निमित्तम् । नैवेदं जातिभेदस्य18 कारणमित्यर्थः । अन्यथैवंविधस्य भेदस्य सर्वत्र सुलभत्वात् तावता विजातोयत्वेऽतिप्रसङ्गः स्यादिति भावः । वाच्यं हि द्वयमप्येतत् । तत् केनाप्युच्यतां स्वयं परेण[वा] यथायोगम् । किमेतावता जातेर्भेदः स्यात् । अर्थतस्त्वेकैव जातिरियं नाममात्रात्तु भिद्यते । यद्वक्ष्यति—एका जातिः संज्ञाद्वयाङ्किता27 । एवं तर्हीदमनयोर्भेदकारणम्, यत्र वक्त्रापरवक्त्रयो पद्ययोर्भविष्यदर्थसूचकयोः प्रवेशः साश्वासा च या सा आख्यायिका । तद्विपरीता कथेति । तदुक्तम्—वक्त्रं चापरवक्त्रं च कालभाव्यर्थशंसि च ।28 इति । तथा—साश्वासाख्यायिका मता ।29

न वक्त्रापरवक्त्राभ्यां युक्ता नाश्वासवत्यपि ।
संस्कृतासंस्कृता चेष्टा कथाऽपभ्रंशता तथा ॥ इति ॥
30

  1. काव्यालङ्कारे १.२९
  2. १. २८
  3. काव्यालङ्कारे १. २६
  4. काव्यालङ्कारे १. २५
  5. काव्यालङ्कारे १. २८